"बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८७ (कृष्णचतुर्दशीजन्म शान्त्यध्यायः)" इत्यस्य संस्करणे भेदः

new subpage
(भेदः नास्ति)

११:०३, १८ जुलै २०१२ इत्यस्य संस्करणं

← बृहत्पाराशरहोराशास्त्र ८६ बृहत्पाराशरहोराशास्त्रम्
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः॥८७॥
पाराशरः
बृहत्पाराशरहोराशास्त्र ८८ →

अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ ८७॥


कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥

द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥

षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥

शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥

बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥

त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥

इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥

आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥

जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥

समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥

अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥

मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥

अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥