"रामायणम्/बालकाण्डम्/सर्गः ६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥'''<BR><BR>
<poem><span style="font-size: 14pt; line-height: 200%">पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् १.०६२.००१०१
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः १.०६२.००१०१
अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः १.०६२.००२०२
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः १.०६२.००२०२
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् १.०६२.००३०३
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः १.०६२.००३०३
ततः कालेन महता मेनका परमाप्सराः १.०६२.००४०४
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे १.०६२.००४०४
तां ददर्श महातेजा मेनकां कुशिकात्मजः १.०६२.००५०५
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा १.०६२.००५०५
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् १.०६२.००६०६
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे १.०६२.००६०६
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् १.०६२.००६०६
इत्युक्ता सा वरारोहा तत्रावासमथाकरोत् १.०६२.००७०७
तपसो हि महाविघ्नो विश्वामित्रमुपागतः १.०६२.००७०७
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव १.०६२.००८०८
विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः १.०६२.००८०८
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः १.०६२.००९०९
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः १.०६२.००९०९
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन १.०६२.०१०१०
सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् १.०६२.०१०१०
अहोरात्रापदेशेन गताः संवत्सरा दश १.०६२.०११११
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः १.०६२.०११११
विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः १.०६२.०१२१२
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् १.०६२.०१३१३
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः १.०६२.०१३१३
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह १.०६२.०१३१३
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः १.०६२.०१४१४
कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् १.०६२.०१४१४
तस्य वर्षसहस्रं तु घोरं तप उपासतः १.०६२.०१५१५
उत्तरे पर्वते राम देवतानामभूद्भयम् १.०६२.०१५१५
अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः १.०६२.०१६१६
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः १.०६२.०१६१६
देवतानां वचः श्रुत्वा सर्वलोकपितामहः १.०६२.०१७१७
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् १.०६२.०१७१७
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः १.०६२.०१८१८
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक १.०६२.०१८१८
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः १.०६२.०१९१९
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् १.०६२.०१९१९
ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः १.०६२.०२०२०
यदि मे भगवानाह ततोऽहं विजितेन्द्रियः १.०६२.०२०२०
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः १.०६२.०२१२१
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः १.०६२.०२१२१
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः १.०६२.०२२२२
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् १.०६२.०२२२२
धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः १.०६२.०२३२३
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः १.०६२.०२३२३
एवं वर्षसहस्रं हि तपो घोरमुपागमत् १.०६२.०२४२४
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ १.०६२.०२४२४
संभ्रमः सुमहानासीत्सुराणां वासवस्य च १.०६२.०२५२५
रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः १.०६२.०२५२५
उवाचात्महितं वाक्यमहितं कौशिकस्य च १.०६२.०२६२६
 
</span></poem>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६२" इत्यस्माद् प्रतिप्राप्तम्