"ऋग्वेदः सूक्तं ५.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३०८:
गिरः । देवि । रथीःऽइव ॥१७
 
संपन्नऋषिभावस्य श्यावाश्वस्यार्चनानसः । रथवीतिसुतायाश्च विवाहं शौनकोऽब्रवीत् ॥ कथम् । मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः । प्रादुर्भूतार्षमात्मानं ज्ञात्वात्रिकुलनन्दनः ॥ रथवीतेर्दुहितरमगच्छन्मनसा तदा । स सत्यमृषिमात्मानं प्रवक्ष्यन्रथवीतये ॥ एतं मे स्तोममित्याभ्यां दौत्ये रात्रिं न्यवेदयत् । ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥ आदाय कन्यकां दातुमुपेयायार्चनानसम् । पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः । रथवीतिरहं दार्भ्य इति नाम शशंस सः । मया सयोगमिच्छन्तं त्वां प्रत्याचक्षि यत् पुरा ॥ तत्क्षमस्व नमस्तेऽस्तु मे मा स्म भगवन् क्रुधः ॥ ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः । हन्त प्रतिगृहाणेमां स्नुषामित्येनमब्रवीत् ॥ तस्मै ददावश्वशतं स राजा स्वलंकृतां चापि सुतां स्नुषार्थम् । विवाहकालेऽपि ददौ नरेन्द्रः शतं हयानां दुहितुः सहस्रम् ॥ गवां सहस्रं वसु च प्रभूतं तप्तुं तपोऽन्तेऽथ वनं जगामेति ॥ हे “ऊर्म्ये रात्रि देवि । ऊर्म्येति रात्रिनाम । “मे मदीयम् “एतं “स्तोमं मरुद्यःः्मरुद्भ्यः कृतं स्तोत्रमहं मन्त्रदृक् भूत्वा मरुतः स्तुतवानित्येवं “दार्भ्याय श्यावाश्वाय “परा पराङ्मुखी दार्भ्याभिमुखी सती “वह प्रापयेत्यर्थः । तदेवादार्थमुच्यते । हे रात्रि “देवि “गिरः स्तुतीर्मरुद्विषयाः परा वह “रथीरिव । रथी यथा रथेऽभिप्रेतं वसु स्थापयित्वा अभिमतं देशं प्रापयति तद्वत् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६१" इत्यस्माद् प्रतिप्राप्तम्