"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: . २० पटलः] महादेनकृतवैजयन्तीव्याख्यासमेतम् । प्रवृत्तानां यजमानानां मध्य एकेन यजमानेनौदम्बरीमाने सति शास्त्रार्थों निष्पन्नस्ततो- ऽन्ययजमानेन मानं नापेक्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

००:५६, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २० पटलः] महादेनकृतवैजयन्तीव्याख्यासमेतम् । प्रवृत्तानां यजमानानां मध्य एकेन यजमानेनौदम्बरीमाने सति शास्त्रार्थों निष्पन्नस्ततो- ऽन्ययजमानेन मानं नापेक्ष्यते । न हि मानं यजमान संस्कारो येन सर्वेषां प्राप्नुयादेक- स्वाविवक्षया विधेयो यनमामः साधनत्वेनातो विवक्षितमेकत्वम् । परार्थानीति किम् । एकेन बहिषा वेविस्तरणे सिद्धेऽपि बहिषामपरायत्वादन्येषामयुना युजां वा वैयर्थ्य मा भूदिति संस्कारोऽभ्वस्यते । तदेव वक्ष्यति–' त्रिधातु पञ्चधातु पो पातौ धातौ मन्त्रमावर्तयति' इति । तैः सर्वैरनैकैः क्रियत इति प्रत्युदाहरणम् । कर्मविशेषे कर्तृनियममाह-

यजुर्वेदेनाध्वर्युः करोति ।

यजुवेदेन यद्विधीयते तत्सर्गेणाऽऽध्वर्यवमिति याज्ञिकैय॑पदिश्यते । अध्वर्योः कर्माऽऽध्वर्यवमिति वृतोऽध्वर्यु नाति मया यजुर्वेदविहितं कर्तव्यमिति । अन्यथा येन केनचिहत्विजा वृतेन किमपि कर्तव्यमित्यनियमः स्यात् । तत्रावान्तरसंज्ञया ब्रह्मत्वं होत्रं चैतादृशं नियम्यते । कात्यायनेन तु अध्वर्युः कर्मसु वेदयोगादित्युक्तम् । तत्रा- ध्वर्युरित्यत्विजः संज्ञाऽध्वर्युवेद इति वेद संज्ञाय । तेनाध्वयुक्तो जानाति मत्संज्ञकेन विहितं मया कर्तव्यमिति सूत्रयोजना । यजुर्वेदेन विधीयते तदध्वयुरेव करोति संज्ञा- साम्यादिति शेषः।

ऋग्वेदेन होता।

ऋग्वेदेन यद्विधीयते तद्धोता करोति । मेदविहितस्य कर्मण उत्सर्गेण हौत्र- मिति पूर्ववयवहारात् । अत्रापि कात्यायनोक्तप्रकारेणापि योजना । ब्रह्मत्वस्यावान्तर- संज्ञया वेदैकदेशे बाझं कर्म ।

सामवेदेनोद्गाता ।

पूर्ववद्याख्याब्रह्मत्वे च ।

सर्वैर्ब्रह्मा ।

यजुर्वेदवेदसामवेदेषु च स्वातन्त्र्येणैकदेशे संज्ञा ब्रह्मत्वमिति । त्रिभिः संज्ञाविशेषै. खत्वं नियम्यते । अथर्ववेदे चोत्सर्गेण विहितस्य ब्रह्मत्वमिति संज्ञाप्रसिद्धा विशेष- बचोमिस्तत्राध्वर्युहोत्रौद्गात्राणां शेषो ज्ञेयः । अन्यसंज्ञाभिश्च शान्त्यादि ज्ञेयम् । अतो विशेषसंज्ञाभिर्विहितं वेदत्रये ब्रह्मत्वं नाथर्वणस्य शेष इति पूर्वमेव दर्शितम् । अत. स्तानि वेदभेदेन ब्रह्मत्वानि विकल्प्यन्ते । अथर्ववेदोक्तं तु स्वत एव । अतः सैंदर्वि हितं समप्राधान्येन तद्ब्रह्मा करोति । कात्यायनीयानुसारेणाऽऽथर्वणाः स्वं वेदं ब्रह्मवेद- क. ग. च. छ. द. ठ, वेति । २ ख. छ. ८. क्रियन्त । ३ ख. छ. ट."शे प्रमक । क. ग. च. ठ, पेदेन । ५ क, ग, च. ठ, कल्पन्ते ।