"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: “सत्यापाविरचितं श्रौतसूत्र- [प्रथमप्रश्शे- मिति व्यवहरन्त्यत उत्सर्गेण संज्ञासामान्येनापर्ववेदविहितं ब्रह्मा करोति । वेदत्रये तु विशेषसंज्ञया विहितं करोत... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

००:५९, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“सत्यापाविरचितं श्रौतसूत्र- [प्रथमप्रश्शे- मिति व्यवहरन्त्यत उत्सर्गेण संज्ञासामान्येनापर्ववेदविहितं ब्रह्मा करोति । वेदत्रये तु विशेषसंज्ञया विहितं करोत्येव । एवमुत्सर्गेण तत्तद्वेदविहितस्प कर्मण ऋत्विकर्तृक त्वनियमे सत्यपवादमाह-

वचनलक्षणा इतरे ।

पचन संज्ञाविशेषो विधायक वाक्यं च । तदेवान्येषामृस्विनामनृविनां च लक्षणं येषां ते तथा । इतरे 'चतुर्योऽन्ये कुर्वन्तीत्यनुषको विपरिणामश्च । तेषामुत्सर्गण वेदप्रयुक्तं कर्म नास्तीति विशेषवचनैः प्रमाणैः कुर्वन्तीत्यर्थः । तथा चतुर्णा स्वस्ववेदेषु नियमेऽपि संज्ञाविशेषैस्तेषामपि परस्परमन्यवेदविहितमपि किमपि कर्तव्यं दृश्यत इत्यनेनैव नियम्यते । अत्रोदाहरणानि, संज्ञया होत्रं यजुर्वेदस्थमपि. होता करोति । पचनं पत्नी पिनष्टि दासी वा । स्वयमग्निहोत्रं जुहोति उन्नेता जुहोति नेष्टा पत्नियामुद्गात्रा संख्यापयति ।

असंभवाद्वा ।

इतर इत्यनुषङ्गः । यस्य यत्कर्म विहितं तेन तस्य कर्तुमसंपवोऽसमावना सस्मात् । उदाहरति-

यथाऽश्वमेधैे पशुकर्मसु ।

• अत्र पशूपाकरणं नानादेशस्थनानापशूनामेकेनाध्वर्युणा कर्तुमशक्यमिति न हि वेदेनाशक्यं विधीयते, विधीयते च, तस्मादन्यं कर्तारमपि विदधाति न तु पश्चन्तरोपाक. रणाद्यभावमनुजानाति वेदः कर्मवैगुण्यापत्तेः । तस्मादन्यैर्ऋत्विगादिभिः कार्य, नात्र प्रायश्चित्तं प्रतिनिधिग्रहण इव । बहुवचनग्रहणात्प्रोक्षणादिकमपि प्रकृतौ यद्यस्य विहित तत्तेन कर्तुमशक्यमन्येन कर्तव्यमिति । साधननियम व्याचष्टे-

आहवनीय आहुतयो जुह्वा हूयन्ते ।

आहवनीयस्याधिकरणता श्रुतिप्तमाख्या यां, यदाहवनीये जुह्वतीति श्रुतिः, समाख्या च हूयतेऽस्मिन्नित्याहवनीय इति । हूयतेऽनयेति जुहूरिति समाख्यया साधनता जह्वाः । आहुतयोऽत्र कर्माणि जुहोतिना विहितानि यस्य कस्याप्यत्विनः । एवं चेदमुक्त- यत्राऽऽहंतयो हूयन्ते तत्राधिकरणमाहवनीय, साधनं जुहूः । तथा च वेदचतुष्टयवि- हितकर्मणामुत्विना ये होमा विहिता येन केनचिद्रव्येण तेषामेतावानेव नियमः, ते सर्वेऽपि तेर्नुह्वाऽऽहवनीय एव कार्या इति नियम्यते । सामान्यश्रुतेर्वाधोऽपि गार्ह. पत्यादिश्रुत्या द्रष्टव्यः । एवं जुल्हा साधनेनति नियमः । सोऽपि समाख्ययैव । विशेष. क. ग.न. छ. . याहा । ख. प्रमाण । ख. र.धु विनि । ३ क. ग. च. 3. "प्रोहण । ४ क.ट. 'वं वेद ।