"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे यथा स्मृत्या प्राप्तं तथैव । श्रुत्योनियामिकयोः कल्पितयोरत्र प्राप्त्या दर्शपूर्णमास- देवाग्निहोत्रम्योऽन्यत्र प... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:०७, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [प्रथमप्रमे यथा स्मृत्या प्राप्तं तथैव । श्रुत्योनियामिकयोः कल्पितयोरत्र प्राप्त्या दर्शपूर्णमास- देवाग्निहोत्रम्योऽन्यत्र प्राप्त्यमावादित्यर्थः । प्रत्येक दर्शपूर्णमासलक्षणकालस्योत्पत्तिवाक्ये संवन्धावगमादेकैकमेवाऽऽग्नेयादिक- मैंककस्मिन्कालेऽनुष्ठेयमित्याशक्याऽऽह-

चोदनासंयोगात्प्रधानान्येककालानि ।

अनेकप्रधानोपकारकाङ्गविधिचिन्तेयम् । सामान्यत एकस्मिन्फले निमित्त बोद्देश्ये चोदनयाऽधिकारविधिना दर्शपूर्षमासाम्यां यतेत्यनेन, तथाऽमावास्यायाममावास्यया यजेत पौर्णमास्यां पौर्णमास्येति च कालद्वये समुदायकरणात्प्रधानानि सन्ति । एकः कालोऽनुष्ठाने येषां तानि तथा भवितुमर्हन्ति । संज्ञा वा प्रकृतपरामर्शेनैत- येष्वा यजत इति वा यानि कोडीकृत्य विधीयन्ते तानि प्रधानानि सहचोदितत्वा- देककालानीतरेतरव्यपेक्षाण्येव सहयावं गच्छन्ति । न हि तान्यसमुदितान्येकप्रयोन- नानि भवन्ति । समुदायश्चैककालान बन्धन इति नैकैकत्र दर्शे पूर्णमासे वैकैकमित्यु- सर्गः । युगपत्कर्तव्येषु कर्मस सन्सु-

तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्यावर्तन्ते ।

तेषामेककालानां तत्रं सकृदनानि सकृदनुष्ठितान्येवाङ्गानि । किमविशेषेण नेत्याह- विभवन्ति समर्थानि, यानि युगपदनुष्ठितानि सर्वोपकारे समर्थानि तान्येव तन्त्र नान्यानि । पूर्वसूत्रेऽपि कालोऽहं तन्त्रेण न प्रत्येकं चेति चिन्ता । तयाऽपि तस्या- विधेयत्वेन सकृदनुष्ठानायोगात्यक्चिन्ता । कर्मणामखैरुपकारो द्वेषाऽदृष्टो दृष्टश्चेति । तत्रादृष्टार्थानां प्रयाजादीनां दृष्टानामपि वेद्यादीनामस्त्येव सामर्थ्य, याज्यापुरोनुवा- क्यादीनामसामर्थ्यावावृत्तिः । कुतः । चोदनासंयोगादित्यनुवर्तते । चोदनयोत्पत्ति- वाक्ये कधभावाकाङ्क्षादिभिः सहैत योगायुगपदेवाङ्गैः सह संबन्धात्सर्वेऽपि यागा यद्यपि पृथक्पृथक्कथंभावाकाङ्क्षिणस्तथाऽपि युगपदेव चारैः संबध्यन्ते सकृच्छ्रुतैरङ्गैर्न पौर्वापर्येण सकृच्छुतान्यान्यपि कि माव्यमिति सहैत साकाङ्क्षाणि युगपदेव प्रधानैः संबध्यन्ते युगपदेवान्वयं गच्छन्तीति नाऽऽवृत्त्या संबध्यन्ते । अत्र चोदनासंयोगादित्य- स्यान्या व्याख्या चोदना श्रुतिस्तया संयोगात्संहत्य योगेन तद्गणनात्संख्यानादर्शपूर्णमास- प्रधानानामशानां च तया परिगणितत्वातन्त्रमेव युक्तम् । तथाहि, श्रूयते श्रुतौ) हि-ता एकविंशतिराहुतयो द्वावाधारी पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषो- १८. तथापि । २ क. ग. च, ठ, "त्पन्ना। 3 क. ख. म. च. ४, 'इक्षिभिः । । ट. ख्यानां दर्श।