"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्रश्ने- त्वावगमात्तथा सारस्वतहोमयोः पृथक्प्रणयनम् । एवं च सति योगपये तन्त्रमङ्गानां सिद्धम् । कालदेशकग्निभेदे प्रधानान... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:१०, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्रश्ने- त्वावगमात्तथा सारस्वतहोमयोः पृथक्प्रणयनम् । एवं च सति योगपये तन्त्रमङ्गानां सिद्धम् । कालदेशकग्निभेदे प्रधानानां विद्यमाने पृथगङ्गानुष्ठानमपि सिद्धम् । दर्शपूर्णमासाङ्गलया पात्राण्युत्पादितानि तानि नान्यस्य प्रयोगस्याङ्गं भवितुमर्हन्ति । ततः प्रयोगान्तरार्थमन्यान्येवमन्येष्वपि प्रयोगेष्विति प्राप्त आह-

आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते ।

स्पयादिपात्राणि आधानप्रभृति यावज्जीवं धार्यन्ते । तैरेव यावनीवं प्रयोगः कार्यः । न हि दर्शपूर्णमासप्रकरणे तेषामुत्पत्तिर्विधीयतेऽपि तु सर्वार्थमनारम्याधी- तविधिभिः प्रकरणाबहिरेव लौकिकेन कर्मणाऽऽधानेनानीनामिव । तस्माद्धारणं नियम्पते प्रयोगान्तरार्थमुन्सर्गे वा विरामे वा धार्याण्येव । कुतः । तत्र हेतुर्जीव- शब्देनोक्तो मृत एव प्रतिपत्तिविधानात् , गृहीतस्याविधिना त्यागायोगात् । देशक- @स्तु परिगृहीतत्यागः शिष्टैनोऽऽहत इति तत्यागेऽपि न गर्हेत्याहुर्मीमांसकाः । ने तु प्रतिपत्तिर्धारणं न प्रयोजयेदिति वाच्यम् । यजमानशरीरसंस्कारार्थान्यपि श्रूयन्ते । तद्यथा-पाने तु यजमानेन सह पात्राणि दहेतीत्युक्त्वा यजमानस्य दक्षिणे हस्ते जमुपदधातीत्यादिनाऽऽधारत्वेन शरीरस्यापि संस्कार्यत्वावगमात्पात्राणां द्विती- यया प्रतिपाद्यत्वावगमादवैगुण्याय धार्यन्ते । आधानप्रभृतीत्यनेन यानि दर्शपूर्णमास- पशुचातुर्मास्यसोमानां पात्राण्यप्रतिपादितानि तानि सर्वाणीत्यर्थः । यावन्नीवमिति यावत्प्रतिपत्ति धार्याणि । यः पूर्व म्रियते तेनैव पात्राणां प्रतिपत्तिः । प्रवनति वन. मनग्निर्वा प्रतिष्ठति तदा भार्यया धार्यन्ते पात्राणि । ननु सकृदेव संस्कृतानामग्नीनामिव पात्राणामङ्गत्वमस्त्वित्याशझ्याऽऽह-

तेषां प्रतितन्त्रꣳ सꣳस्कारोऽभ्यावर्तते ।

आधानेनानारम्याधीतेनोत्पादितानामनीनां न प्रयोगमध्य उत्पत्तिः । पात्रसंस्कारो हि प्रोगमध्ये कृतः । स एकस्मिन्प्रयोगे कृतो न प्रयोगान्तरस्याङ्गं प्रयाजादिवदिति प्रतितन्त्र प्रतिप्रयोग कर्तव्यः । आधाष्टिषु कृतोऽपि पात्रसंस्कारोऽतिदेशेनैष प्राप्त- इति नाऽऽधानवत्सकृत् । पात्राणां प्रयोगमध्ये भेदनादौ प्रायश्चित्तं कृत्वा प्रतिनिधि- ह्यो योग्योऽनुपयुक्तस्य यथाशास्त्र प्रतिपत्तिः । प्रयोगात्पूर्वमसामर्थे त्वसमर्थमेव प्रयोगकालपर्यन्तं स्थापयित्वा प्रतिनिधाय तस्य शुचौ देश आहवनीये वा प्रतिपत्तिः कार्या। बौधायनीये ह्यसमारण्योराहवनीये प्रतिपत्तिदर्शनात् । एतावता सूत्रसंदर्भण सर्ववेदसर्वकर्तृसर्वकर्मसर्वानाना(णां) सामान्येन साध्यसाधनभावावेदनेन प्रयोगसामा- न्यस्वरूपं दर्शितं, विशेषस्तु जैमिनीयन्यायैरवगन्तव्य इति सूचितम् । १८. नमिति सि । २ ख. 2. तान्येकस्य । ३ ग. उ. विप्र ख. छ. ८. ननु । ५ स. इन्तीत्यु । ६८. वति । ७ ख. च. ट. देशत एष ।