"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ५५. १प्र० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । अथ प्रयोगः। प्रयोगक्रमाधिकारास्तु न सामान्यतो व्याख्येया इति तेषां प्रयोगविशेषा. देव स्पष्टा विशेषा भविष्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:११, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५. १प्र० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । अथ प्रयोगः। प्रयोगक्रमाधिकारास्तु न सामान्यतो व्याख्येया इति तेषां प्रयोगविशेषा. देव स्पष्टा विशेषा भविष्यन्तीति फलप्रदर्शनपूर्वकं दर्शपूर्णमासप्रयोग व्याचष्टे-सर्वकामा- वित्यादिना ननु तृतीयप्रश्ने सर्वनियतकर्मणां निःश्रेयसं फलं व्याख्यास्यमानमन्त्र व्याख्याय पश्चात्सर्वकामावित्यादिना व्याख्येयमिति चेत् । सत्यम् । यज्ञं व्याख्यास्याम इत्यारभ्य व्याख्या या कृता सा तु कर्मकाण्डमात्रविषयनैमिनीयन्यायोपबृंहणेन कृता, न चात्र नैमिनिना कर्मणां मोक्षोपायतोक्ता, येन तदुपबृंहणं क्रमप्राप्तमत्रैव स्वेन कर्तव्य स्यात्किं तार्ह किंचिदविवेचितं नियतकर्मसाध्यं फलमस्तीत्येतावदेव जैमिनीये ऽर्थीसिद्धं तत्तथैव दर्शपूर्णमासयोरेव ताभ्यां यावजीवं यजेतेति कर्मकाण्डमात्राधिकारिणं प्रत्येव व्याख्यास्यते । दर्शपूर्णमासाबुपोद्घातत्वेनैव व्याख्येयावाधानाचे वाऽनुष्ठानक्रमस्य मुख्यत्वात् । तस्मादत्रोपोद्घातमात्रेण दर्शपूर्णमासयोरवसा इति दर्शयितुं जैमिनीय- न्यायसिद्धमेव फलमनूद्यते । ततः परमाधानादिप्रयोगे व्याख्येये बादरायणमतसिद्धं फलं मुमुखं प्रकृत्य स्वतन्त्रशास्त्रसिद्धत्वेन पृथगधिकारिप्रकरणतया प्राधान्येन प्रतिज्ञा. तानां नियतकर्मणां प्राधान्येनैव फलं व्याख्येयमिति दर्शयितुं तत्रैव व्याख्यास्यते । यच्च काम्यप्रयोगे फलं तत्तु प्रयोगभेदेन जैमिनीयन्यायेनैव दर्शपूर्णमासयोदर्शयिष्यते । प्रासङ्गिकमुत्तरत्र सर्व ज्ञेयमिति तदुत्तरत्र न व्याख्यायते । कर्मणाऽभ्युदय इत्येतत्तु निःश्रेयसफलसाधनोपयोगितयैव व्याख्यास्यत इति न क्वाप्यनवसरेण व्याख्या । आधानेष्टीनां विकृतिरूपत्वेन दर्शपूर्णमासविध्यन्तापेक्षायामाधानात्पूर्व तावेवाऽऽदौ निरूपयंस्तद्विषयन्यायप्रदर्शनार्थ तयोरादौ फलसंबन्धं व्याचष्टे-

सर्वकामौ दर्शपूर्णमासौ ।

कस्यांचिच्छाखायां धूयते । काम्य एव फलवत्ता जैमिनीचे साधिता। न चास्मच्छा- खायां दर्शपूर्णमासयोः फलं श्रूयते । न च तस्मिन्नसति कथमित्याकाङ्क्षात्मकं प्रकरण- मुदेति । तथा च तौ समानविधानावित्यादि न व्याख्यातुं युक्तमिति फलमेव बुद्धा पुरुषः प्रवर्तत इति तदादौ वक्तुं युक्तम् । शाखान्तरे हि श्रूयते–'एकस्मै वै कामायान्ये यज्ञक्रतत्र आरभ्यन्ते, सर्वेभ्यो वै कामेभ्यो दर्शपूर्णमासौ ' इति । तदिदं व्याख्यानतो निर्दिष्टम् । काम्यन्ते ते कामा इष्टानीति यावत् । सर्वे कामा याम्यां साधनाभ्यां साध्यास्तौ सर्वकामौ । परसरापे- क्षाणामेव कारणता । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति प्रसिद्धं वाक्यमुपेक्षितम् । .क. ग. च. 3. 'गकर्माधि। २8, 'चिटुचितं । ३ क. ग. च. छ. उ. यजत इति । च. 'येनानु।