"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: - १प्र०पटल: महादेवकृतवैजयन्तीव्याख्यासमेतम् । कालोऽङ्ग प्रयोगयोरित विधत्तः । अत एवोक्तम्-चोदनासंयोगादित्यादि । समु- दाये च विद्वद्वाक्यावगतो य एवं विद्वानम... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:२०, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १प्र०पटल: महादेवकृतवैजयन्तीव्याख्यासमेतम् । कालोऽङ्ग प्रयोगयोरित विधत्तः । अत एवोक्तम्-चोदनासंयोगादित्यादि । समु- दाये च विद्वद्वाक्यावगतो य एवं विद्वानमावास्यां यजते य एवं विद्वान्पौर्णमासी यजत इति सूत्रवाक्ये पाठानुसारेण नस्वनुष्ठानानुसारेण पठित एकैकस्मिन्समुदायो न । एक- वचनेन न समुदितानामेव संज्ञाकरणं, किंतूत्पत्तिवाक्यावगतपरस्परसंबन्धनिरपेक्षाग्नेय- त्वाष्टाकपालत्वादिवकैकस्यैव प्रत्येक संज्ञा पर्यवस्यति । तेनाग्नीषोमीयाकरणपक्षेऽपि क्रियमाणयागयोरेवाऽऽग्नेयोपांशुयाजयोरेव संज्ञेति सिध्यति । ततस्तु काम्यदर्शपूर्णमास- योरप्यो प्रदयमानयोरुपांशुयानामावेऽपि क्वचिद्दनो मावेऽपि क्वचिहणान्तरसंयोगे संज्ञा न हीयते । तत्राप्युत्पत्तिवाक्य कालविधानात् । तद्यथा दाक्षायणयज्ञे पूर्णमासे संनयेन्मैत्रावरुण्याऽऽमिक्षयाऽमावास्यायां यजेतेति शास्त्रान्तरे यत्र कौण्डपायिनाम- यने कर्मणि मासं दर्शपूर्णमासाम्यां यनेतेति तत्र गौणी संज्ञो । अविधिस्तेषां मखः ऋतुसमूह इति संज्ञा मुख्यास्तदमावे शब्दमात्रम् । यत्र पश्चात्संज्ञासबन्धादन्यधर्म- लामस्तत्र गौणी । यथाऽग्निहोत्रसंज्ञा मुख्या यदग्नये च प्रजापतये च सायं जुहोती- त्युत्पत्तिवाक्येऽनदर्शनान्मुख्या । कौण्डपायिनामयने कर्मणि मासमग्निहोत्रं जुहोतीति कालविधौ नाग्निदेवता विधानमिति गौणी । काभ्यदर्शपूर्णमासयोनित्यदर्शपूर्णमासयो- रपि मुख्यैव संज्ञा, दर्शपूर्णमासाम्यां स्वर्गकामो यजेतेति कस्यांनिच्छाखायां विधान साङ्गयोरस्ति । यत्रापि यावजीवं दर्शपूर्णमासाम्यां यतेत्यत्रापि तथा कालविशिष्टा- थोत्पत्तिविधय उभयत्रापि सर्वकामावित्यत्र तु फलवाक्यमनारम्याधीतम् । पौर्णमास्यां पौर्णमास्येत्यादि यदुक्तं तत्र कोऽयं पौर्णमासी नाम यागोऽमावास्या नामेत्यपेक्षायां नामयोपात्तान्विविच्य प्रधानयागान्दर्शयति-

आग्नेयोऽष्टाकपाल उपाꣳशुयाजश्चाग्नीषोमीयो वैष्णवः प्राजापत्यो वाऽग्नीषोमीयश्चैकादशकपालःपौर्णमास्यां प्रधानानि ।

प्रधानानीति बहुवचनेन कर्मणां प्रधानभूतानां भेद उक्तः । प्रधानानीत्यनुवर्ततेऽनि- मेऽपि सूत्रे । तत्रापि कर्मभेद एव । अग्नीषोमायो यद्यपि पञ्चमप्रपाठके समाम्नातोऽय षष्ठप्रपाठक आग्नेयस्तथाऽपि (e) याज्यादिहौत्रानुष्ठानकाले तु स्मारकत्वात्प्राबल्यं तत्कमेण कम इति जैमिनीयैः साधितं ज्ञेयम् ।

नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यत इत्येकेषामाग्नेयोऽष्टाकपाल ऐन्द्राग्न एका-

ः ।१ के. स्व. ग. च. ठ. "शा । २ क, ख, ग, च. उ. ३ ३ क, ख, ग. च. °य एका'। ४४. लेऽनुस्मा ।