"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ६४ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- दर्श तु पूर्वपक्षो यद्यप्यनेन पूर्वसूत्रेणैव स्यात्तथाऽप्यन्यथा सिद्धान्तयितुं पुनः पूर्वपक्षमाह- पूर्वाम... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:२६, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- दर्श तु पूर्वपक्षो यद्यप्यनेन पूर्वसूत्रेणैव स्यात्तथाऽप्यन्यथा सिद्धान्तयितुं पुनः पूर्वपक्षमाह-

पूर्वाममावास्याम् ।

उपवसेदित्यनुवृत्तिः । पूर्ववद्यारव्या । सिद्धान्तमाह-

यदहर्वा न दृश्यते ।। ३ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने प्रथमः पटलः ॥१॥

चन्द्र इति शेषः । आपस्तम्बे तथा दृष्टत्वात् । न दृश्यत इत्यनेनामावास्या- शब्दोऽपि दर्शशब्दोऽप्येतदर्थत्वेन व्याख्यातौ । यतो न दृश्यते सूर्यसहभावादतोऽ. मावस्यदन्यतरस्यामिति पाणिनिस्मृत्याऽपि च सह वसतश्चन्द्राविस्मिन्निति त्वमावा. स्याशब्दस्तथा च सूर्येणैव दृश्यते नान्येनेति दर्शशब्दो व्याख्यातः । तथा च श्रुतिः- अमावास्याया औपवसथ्येऽहन्यूज़ मध्यंदिनाच्च चन्द्रमसमादित्यो रमते' इति । रभते लभते पश्यति नान्यदा विप्रकृष्टत्वात्काष्ठामिरित्यर्थः । तथा च निर्वचनमदर्शन- निमित्तं पुराणादौ दृश्यते तदपि सुतरां युक्तमिति सूत्रतात्पर्यम् । पर्वनिर्णयस्तु विशे. पानभिधानात्सामान्यकृतो ग्राह्यः । तथा हि शिष्टोदाहृताः स्मृतयः- 'आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । तदर्याग इष्येत परतश्चेत्परेऽहनि ॥ आवर्तनात्परत इत्यर्थः। तथा-पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि । तस्मिन्नहनि यष्टव्यं पूर्वेयुः स्यादुपक्रमः ॥ उपक्रमोऽन्वाधानादि तत्समाप्य । पूर्वाहें मध्यमे वाऽपि यदि पर्व समाप्यते । . तदोपवासः पूर्वद्युस्तदहांग इष्यते ॥ आवर्तनात्परे संधिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येवं पर्वद्वयविनिर्णयः ॥ इति । तथा-'संधिश्चेत्संगवादूर्ध्वं प्राक्पर्यावर्तनाद्ववेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥ इति । अयं पर्वनिर्णयो येषां शाखायां सूत्रे वा विशेषो नोक्तस्तेषाम् । नोक्तश्चास्म- च्छारवासूत्रयोरित्ययमेव ग्राह्यः । सूत्रमप्यावृत्त्याऽत्र निर्णये योजयितुं शक्यम् । - १ क. ग. च. छ. ट, ठ, ड, पूरणादौ ।