"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सत्याषाढविरचितं श्रौतसूत्रं-; [१प्रथसप्रश्ने- निरूपितं प्रपञ्चेन परिभाषार्थनिर्णयः । नविस्मर्तव्यमेवैतदित्यन्यत्रापि चोच्यते ॥ १६ ॥ त्वां वृण इत्यादिना वृ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३०, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं-; [१प्रथसप्रश्ने- निरूपितं प्रपञ्चेन परिभाषार्थनिर्णयः । नविस्मर्तव्यमेवैतदित्यन्यत्रापि चोच्यते ॥ १६ ॥ त्वां वृण इत्यादिना वृतास्ते प्रतिबयुस्तथा भविष्यामीति, वस्त्रयज्ञोपवीता(तिन) आचान्ता दर्भपाणयस्तीन प्रविश्याऽऽयतप्राणा अव्यावृत्ता विहाराच्च परिभाषितधर्मः स्वं स्वं कर्म यथान्याये कुर्युस्तौ दंपती च ॥

प्रातरग्निहोत्रꣳ हुत्वाऽनुगमयित्वाऽऽग्निहोत्रिकमपोद्धृत्य वोदित आदित्यं गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधात्युत्तरया गार्हपत्यमुत्तरया दक्षिणाग्निम् ।

प्रातरग्निहोत्रमिति विशिष्टं कर्मनामधेयं रूढयैवोषःप्रभृतिसंगवात्पूर्व विहित. स्याग्निहोत्रस्य कर्मणः । तद्धत्वा कृत्वा । प्राप्तानुवादोऽयं क्त्वाप्रत्ययेन दर्शपूर्ण- मासार्थोद्धरणात्पूर्वकालत्वल्यापनाय । हुत्वोद्धृत्येति संबन्धः । प्रातरग्निहोत्रमंपि प्रातः प्राप्तम् । इष्टयर्थमुद्धरणमपि प्रातःकाले प्राप्तम् । इष्टेः प्रातरुपक्रमनियमात् । तत्र प्रातरनिहोत्रकालः सूर्योदयात्पूर्वमप्यस्ति । तत्र सावकाशमग्निहोत्रं निरवकाशश्चेष्टि- प्रातरुपक्रमः । अतः सूर्योदये सत्येव यः प्रातःकालस्तत्रैवेष्टयर्थमुद्धरणम् । तदि- दमाह-उदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्येति । यदि सायमेवोद्धरणमग्निहो- त्रार्थ तदा प्रात)मस्याप्युपक्रान्तस्य समापन कार्यम् । प्रातरपि पुनरुद्धरणपक्षे चाप्यु- पक्रान्तस्य समापनभेव । संभवति पौर्वापर्येणे समापने न च कर्मणि प्रारब्धेऽसमाप्ते कर्मान्तरारम्भो युक्त इत्यर्थः । आग्निहोत्रिकमग्निहोत्रार्थमृद्धृतः सायमेव वा प्रात- रपि वा स आग्निहोत्रिका, तं शान्ति प्रापयित्वा, यदि शान्ति सूर्योदयात्पूर्व न गच्छे- तदाऽऽयतनादपोद्धृत्य बहिः कृत्वा ततोऽन्यस्योद्धरणमित्यर्थः । आग्निहोत्रिकशब्देन नित्यधार्थस्य न त्याग इत्युक्तम् । न हि सोऽग्निहोत्रार्थमुद्धृतो धार्यते किंतु स सर्वा- र्थधृतो नाऽऽग्निहोत्रिकत्वन्यपदेशं लभतेऽसाधारण्येन व्यपदेशा भवन्तीति न्यायात् । इष्टयर्थमुद्धरणे प्राप्ते पूर्वस्यापवृत्तकर्मकस्य त्यागे प्राप्तेऽपि पुनर्वचनं मतान्तरनिवृ. त्यर्थम् । भारद्वाजेनोच्यते ' य एषोऽग्निहोत्रार्थोऽग्निस्तं गृह्णीयात् ! इति । गृह्णीया. दन्वादध्यात् । तस्यापवृत्त कर्मकस्य लौकिकत्वादाहवनीयत्वाभावात्तत्याग एवेत्यर्थः । उदित आदित्य इत्येतदप्राप्तं विधीयते । तस्मादुद्धृत्येत्यत्रोद्धरेदिति विधिरनुमितो ज्ञेयः । अर्थीयार्थीय गार्हपत्यादाहबनीयमुद्धरतीति वक्ष्यमाणस्यानुवादो गार्हपत्यादित्यादि । नित्यधार्येऽप्यदृष्टार्थ पुनरुद्धरणं मा भूदिति । आहवनीयमिति गार्हपत्ये यदाऽऽहवनीयः ...ग. ट... ६. बोच्यते । २ क. च. ट. उ. वा । ३ ख. अतः । । छ, क्षे वाऽप्यु। - ५क.ग. च.छ.ट...'ण ।न।