"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: : 1 रद्विः पटलः] :: महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रविष्टः स्यात्तदाऽऽहवनीयमुद्धृत्येत्युपपद्यते। नित्यंधार्ये त्वाहवनीयशक्तेहिपत्ये प्रवे शाभावात्... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

२०:३०, १९ अक्टोबर् २०२१ समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 रद्विः पटलः] :: महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रविष्टः स्यात्तदाऽऽहवनीयमुद्धृत्येत्युपपद्यते। नित्यंधार्ये त्वाहवनीयशक्तेहिपत्ये प्रवे शाभावात् । अन्वादधातीत्यनेनाऽऽवनीयमित्यपि संबध्यते साकाङ्क्षत्वात् । उद्धृत्ये- त्यनेन गार्हपत्यात्पृथक्कृत्वाऽन्वादधातीत्यर्थो न किंतु हरतेहिकर्मकत्वात्कृष्याऽऽहवनी- यायतनं प्रापय्य स्थापितमाहवनीयमाहवनीयत्वापन्न मत्वाऽऽधाति कर्मार्थत्वेन स्थाप- यति संकल्पमात्रेण बाह्यक्रियाया अभावात् । अन्वादधातीत्यस्य स्थाने गृह्णातिप्रयोगो भर- द्वाजादिसूत्रेषु दृश्यते, श्रुतौ च पूर्वेझुरग्निं गृह्णात्यपरमहर्यजतीत्यादौ । ततोऽन्वादधाति स्थापयत्युत्तरकर्थित्वेन गृह्णाति संकल्पमात्रेण । ममाग्ने वर्च इत्यूचा तथैवोत्तरावपि । सभ्यावसथ्ययोन्विाधानं विहव्याभिः । अत्रे विहव्यामिरन्वादधातीति शाखान्तरीयो विधिः । तत्र जात्याख्यायामेकस्मिन्बहुवचनमिति पाणिनिस्मृतेरेकवचनविवक्षायामकैव प्राप्ता । तत्र शास्त्रान्तरे वाऽऽहवनीयादीनामन्वाधाने प्रत्येकं त्रयाणां श्रवणात्पृथग्दव्यत्वेन मन्त्रावृत्तौ प्राप्तायां तिसृणां विनियोगः । न हि व्याहृतिभिरन्वाधाने मन्त्रान्तरमस्ति । न चान्तिमस्याऽऽवृत्तिः । तयोरुत्तरकाङ्गत्वाभावान्न संस्कार्यत्वं, ततो न मन्त्रावृत्तिः । नचाच्छिद्रैरपि नान्वाधानं प्राप्नुयाद्वक्ष्यति च । सत्यम् । मन्त्रलिङ्गेन विधिरनुमीयते संस्कार्यत्वाभावेऽपि तयोरपूर्वार्थमारादुपकारकमन्वाधानम् । न चान्वादधातीत्यत्र विधे- (रूप्यं स्यात् । तयोरनुमितस्य विधेः प्रत्यान्यस्य स्वीकारान्न वैरूप्यम् । नचाग्न्यन्वा- 'धानमित्येकवचनप्रयोगादत्वाधानस्य संस्कारकर्मण : एकत्वात्तयोरन्वाधानयोहणं न स्यादिति । तयोरारानुपकारकयोराप संस्कार कान्वाधानाङ्गत्वात्साङ्गेऽन्वाधीन उपपन्न- मेकत्वम् । ननु संनिपत्योपकारकस्य कथमारादुपकारकमङ्गम् । संनिपत्योपकारकेना- (णा)पि नियमापूर्व जन्यते, तत्राऽऽरादुपकारकमुपकारकमित्यदोषः । यद्यप्यर्थीयार्थाय गार्हपत्यादाहवनीयोद्धरणं विहितं तथाऽपि न कर्ममात्रमत्रार्थो विवक्षितो येन कृतेऽ. न्वाधाने तत्यागेऽन्यस्योद्धरणं, यथा होतृहोमार्थमुद्धृतस्य त्यागे पुनरुद्धरणं, कि त्वपू. मित्रार्थशब्देन विवक्षितं प्रयोजनम् । अर्थायार्थकर्मणे न तु गुणकर्मणे संस्कारकाये। त्यर्थः । न चान्वाधानेन संनिपत्योपकारिणा होतृहोमवदपूर्व जन्यते । तस्मादपूर्वजन. कस्य प्रधानस्यैव प्रयोजनत्वात्तदर्थमुद्धृतस्य संस्कारो द्वितीयाश्रुत्याऽवगम्यतेऽग्नानन्बाद- धातीति । अत एवाऽऽहवनीयमन्वादधातीति प्रयोगोऽग्नानन्वाधायेत्यादिकश्च सूत्रकृ- तोऽपि । यश्च प्रधानस्याग्निः सोऽङ्गानामिति वक्ष्यतीति नागार्थ पृथगुद्धरणम् । नच होतृहोमार्थमुद्धृतः प्रधानार्थों भवति, अङ्गार्थमुद्धृतस्य प्रधानार्थत्वे प्रमाणाभावात् , प्रधानस्य तदानीमबुद्धिस्थत्वात् । नचान्वाधानेऽपि तथा । अन्वाधान संस्कारकर्म १८. 'यमन्वाद । २ क. च. छ. 'लायतमन्वाद । ग. ह. द. वायतनमन्बाद। 32. यो भार । ४ ख, ग, च, छ, ठ, इ." हि वि।५ इ. शाखान्त'। ६ ख. °णां ग्रहणा'। ७ ट, विधिनि । ८ ८. क्षादन्यः । ६ क. ख. ग. च. छ. उ. स. धानेत्युप। १० ख, "कमि ।