"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: . २द्वि पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । शाखान्तरे विहव्याभिरेवान्वाधानमिष्यते । यथा वा अनुवाकेन मन्त्रहीन विधीयते ॥ अन्वाधान द्वितीयं चेदग्नीनां द... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

२०:३४, १९ अक्टोबर् २०२१ समयस्य संस्करणम्

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २द्वि पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । शाखान्तरे विहव्याभिरेवान्वाधानमिष्यते । यथा वा अनुवाकेन मन्त्रहीन विधीयते ॥ अन्वाधान द्वितीयं चेदग्नीनां देवरूपिणाम् । तेषां ग्रहणः सर्वदेवतानां परिग्रहः । उपपादित एवात्र सापेक्षो मन्त्रसाधने । मन्त्रा आच्छिद्रिकाः स्पष्टलिङ्गा आलिङ्गय तं विधिम् ।। सप्रयोजनतां यातास्तैद्वितीयमिदं भवेत् । दृष्टार्थमेवान्वाधानं तस्याङ्गं प्रथम भवेत् ॥ ततस्तदपि दृष्टार्यमिति सूत्रकृतो मतम् ॥ अथ सूत्रकारेण विहव्यान्वाधानमभिधाय तत आच्छिद्रिकरवाधानं विहितम् । न १ तदेकं भवेत् । श्रुतिप्राप्तविहव्यावरुद्धेऽन्वाधाने लिङ्गप्राप्तानामाच्छिद्रिकाणां नं समुच्चयो नापि विकल्पोऽतुल्यबलत्वात् । अत इदं कर्मान्तरमेवाभिमतं सूत्रकारस्थ । अत एवान्वाधानयोः क्रमसहभावपक्षावुताविति वैताभिरिति । तदिदं मिन्नं कर्म विहित द्वितीयमन्वाधानम् । यथा वै समृतसोमा इत्यनुवाकस्य सार्थवादस्य विधिस्वसंभवे शाखान्तरोयविहव्यावरुद्ध कर्मणोऽग्न्यन्वाधानस्यार्थवादोऽनुवाकः कथं भवेत् । एकवा- क्यताया अश्रवणात् । देवतापरिग्रहलिडेन शाखान्तरार्थवादसाहश्येन च व्यवहितक- वाक्यताकल्पनातो वरमत्रत्येनैवापूर्वेण विधिना सप्रयोजनबसपादनेनैकवाक्यता । एवं चाऽऽच्छिद्रिकाणामावर्यवसंज्ञाया अबाधेनैव विनियोगसिदिः । यथा वै समृत. सोमा इत्यस्य याजमानत्वेऽपि नाप्यत्यन्तं यानमानसंज्ञाबाधेनाऽऽच्छिद्रिकमत्रप्रापणम् । अध्वर्युणा कृते यजमानेन कृतं भवति । यनमानेन चाऽऽच्छिद्रिकाणां जपमात्रे कृतेऽ: पि तेषामाध्वर्यवसंज्ञाबाध एव । तस्माद्यो वै श्रद्धामित्यनुवाकस्य यानमानत्वेऽपि मन्त्रविष्यन्तरवशादध्ववि कर्मैव द्वितीयमप्यान्यन्वाधानम् । ननु विहव्यामिरेव तस्य जातवादाच्छिद्रिकवतापरिग्रहमानं कार्य न पुनराहवनीयादीनामन्त्राधानं पूर्वेण समानत्वाद्देवतापरिग्रहस्य लाभाच्च । न । उद्धृतावनीयो हि प्रत्यक्षाग्निशरीरस्तसमभि- व्याहृतौ तदन्यावपि प्रत्यक्षाग्निशरीरावेवावाहिताः पुनश्च तैः शब्दैर्देवताशरीरों अग्नयो विवक्षिता इति गम्पते पौनरुक्त्यपरिहाराय । मन्त्रलिङ्गादपि देवताशरीरा एवान्वाधीयन्ते । देवतारूपाग्निग्रहणादेव देवतापरिग्रहोऽपि ब्राह्मणेन दर्शितः । तथा हि- यौ वै देवताः पूर्वः परिगृह्णाति स एनाः श्वोभूते यजते ' इत्युपक्रम्य कथमित्र देवतापरिग्रहः कार्य इत्यपेसिते देवतारूपग्निग्रहणेति वक्तुं देवतारूपानेः सर्वदेवता- . १ ख. धनम् । म। २ क. ग. च, छ, ट. इ. स. "यो विहितमा क. ग, च..... ड. सदंशम । ४ क. च. 'राश्चान।