"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ७५. - २वि०पटलः) महादेवकृतवैजयन्तीव्याख्यासमेतम् । एक सिद्धः । तथा याज्यानुवाक्ये प्रधानदेवतापरिग्रहमेव वदतः, अग्निश्च विष्णो तप इति विश्वेदेवैर्युक्तौ यजमा... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३५, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५. - २वि०पटलः) महादेवकृतवैजयन्तीव्याख्यासमेतम् । एक सिद्धः । तथा याज्यानुवाक्ये प्रधानदेवतापरिग्रहमेव वदतः, अग्निश्च विष्णो तप इति विश्वेदेवैर्युक्तौ यजमानाय दीक्षा धत्तमिति । दीक्षा च प्रधानायांतो देवाः प्रधा- नार्थी एव दीक्षासंपादकाः । तथाऽग्निर्मुखं प्रथमो देवतानामत्रापि प्रधानार्थया दीक्षणी. ययाऽग्निविष्णुषागद्वारेण प्रधानदेवतापरिग्रह एव युक्तो न तु साङ्गप्रधानार्थानां परिग्रहः। यतो वदिष्यति । आतिथ्यादिषु पुनर्देवतापरिमहामन्वाधाने चोदकप्राप्तेऽपि पाऽऽतिथ्यादिष्वान्यन्वाधानमिति परैः प्रतिषिद्धं पुनर्विहितम् । ननु चात्राप्यमिः सर्वा देवतेति देवतारूपाग्नेरारम्भेण साङ्गप्रधानार्थेन साङ्गप्रधानदेवतापरिग्रहसिद्धौ कथ- मान्यम्वाधानं विहितमिति चेत् । सत्यम् । देवतारूपामेरारम्भेण देवतारम्भमात्र सिध्यति नरवन्वाधान, तस्य शब्दान्तरेण कर्मान्तरस्वात् । अत एवानभूतेषु, पशुषु पान्वारम्भणीयां प्रतिषेधति । सवनीयमात्रे चान्वाधानप्रतिषधादातिथ्याविष्वग्नीषो. भीयानुबन्ध्ययोश्चानुजानाति । अत एव निरूढेऽपि धारयत्याहवनीयमित्यन्वारम्मणी. पानन्तरमुक्त्वाऽग्नीनन्वादधातीत्याह । ततो ज्ञायत आरम्भे सिद्धेऽपि नान्वाधान सिध्यतीति । तयोरप्यन्वाधानयोरङ्गाङ्गिभावे च लिङ्गं यदयं पृथगन्याधानद्वयममि. घायाऽऽह-इति वैतापिरिति । अत्र देवतापरिग्रहरूपान्वाधानस्य प्रत्याय- म्पासा तदङ्गं विहव्यान्वाधानं संयुक्तान्येकापवर्माणोति न्यायात्तत्तदङ्गमूतं विहव्या- न्वाधानं प्रधानेकैकेन सह कार्यमित्यर्थोऽवगम्यते । अङ्गत्वेऽपि यस्या(चाऽऽ)-तरं य(त)देकं समाप्यान्यत्कार्यमिति । तत्रायमभिप्राय:-विहव्यान्वाधानमङ्गमपि सर्व- मेकः पदार्थोऽग्नीनन्वादधातीति संसृष्टदेव्यत्वेनैकत्वात् । आहवनीयादिषु क्रियमाणं न प्रत्येक पदार्थोऽपि तु पदार्थावयवः सः । तस्मात्कृत्स्नमेकैकमपवर्जयतीत्यभिधाना- सर्वमेकं कृत्वा परं कार्यमेतावता नाजातिभावविरोध इति सर्व समञ्जसम् । अप शाखाहरणम् ।

पलाशशाखाꣳ शमीशाखां वाऽऽहरति ।

प्रथमाऽस्मच्छाखोक्ताऽन्या शाखान्तरीया । पलाशवृक्षस्य शमीवृक्षस्य या(वा) शाखासामान्यमात्रमनिमविशेषविधिप्रपश्चार्य प्रतिज्ञातं शाखादयेऽपि समान एवाऽऽह. रणान्तो विधिरिति दर्शयितुम् । यद्यप्यत्राऽऽहरणेन शाखां संस्कुर्यादिति संस्कार- विधिः, शाखामित्येकवचनमविवक्षितं, तथाऽपि तया वत्सानपाकरोतीति साधनत्वमे- कस्या एव दृष्टमिति सैकव । इह त्वाहरणं वत्सापाकरणेन शाखापवित्रकरणेन च प्रयुक्तं, जाते वत्सापाकरणे यदि शाखा नष्टाऽन्याऽऽनेतन्यैव पवित्रार्थम् । एवं 1 १ ख.ना यतो। २ क. ग. च, छ. ट, ठ, "पि वाऽऽति ।३ क. ग. च. छ. ट, ठ. ह. 'तामार। क. ग. च. छ. ट. ठ ..'दव्येनै । ५ख. छ. ट. इदमाइ ।