"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: . ७६ । . सत्याषाढविरचितं श्रौतसूत्र-- [१प्रथमप्र- शाखापवित्रे नष्टे पुनस्तदर्थ शाखाहरणमिति न्यायवित्समयः । उपवेष नष्टे न पुन• रानयनं येन केनचिद्याज्ञिकेन काष्ठ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३९, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७६ । . सत्याषाढविरचितं श्रौतसूत्र-- [१प्रथमप्र- शाखापवित्रे नष्टे पुनस्तदर्थ शाखाहरणमिति न्यायवित्समयः । उपवेष नष्टे न पुन• रानयनं येन केनचिद्याज्ञिकेन काष्ठेनोपवेषं कुर्यादिति । आदौ शाखागुणान्नित्यान्च्याचष्टे-

प्राचीमुदीचीं प्रागुदीचीं वाऽहीनां बहुपर्णामशुष्काग्राम् ।

वृक्षात्याग्माग उत्पन्नां प्राची प्रान्दिग्भागवृद्धानां तथोदीचीमत्रापि । अत्र प्राची वोदीची वा प्राचीमुदीची वेति तयोविकल्पः । कुतः । मन्त्रे हीमां प्राचीमुदीचीमिति विशिष्टा दृश्यते । तदुक्तं कात्यायनेन-प्रागुदीचीमन्यतरां वेति । अहीनामत्यक्तां केनचित्पूर्वमाहरणार्थ परिगृह्य त्यक्ता होना तादृशी न भवति । ओहाक्त्याग इत्यस्य । घातो रूपं निष्ठान्तम् । अथवा न विद्यते हीनं त्यागो यस्याः सा, पूर्व एवार्थः । बहूनि पर्णानि पत्राणि यस्यां सा तथा । न शुष्कमयं यस्याः सा । सूत्रान्तरे ब्रामणे च बहुशाखामित्यपि विद्यते तरकाम्यमित्यत्र नोक्तं मन्त्रेणानभिधानात् । गुणयस्तुत्यर्थमगुणाया निन्दार्थवादमुदाहरति-

यं काययेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्राम् ।

यं यजमानमपशु यादिति कामयेत तस्मै यजमानाय निर्गुणामाहरेदध्वर्युरिति वाक्यार्थस्तत्र परिक्रपलब्धेनाविना कथं यजमानायानिष्टं कामयितव्यं, प्रतिषेधाच्च । तस्मादर्थवादोऽयमपशुकरत्वान्न तादृशीमानयेदित्यर्थः । एतद्याजमाने प्रपञ्च्यते । काम्यं कल्पं व्याचष्टे-

यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामशुष्काग्राम् ।

अयमपि कामो यजमानस्येत्यपि वक्ष्यते । बहुशाखत्वं काम्यमन्यद्वयं नित्यानु- वादो विरोधाभावात्समुच्चयार्थी बढ्यः शाखा. यस्यां साऽवान्तर भेदयुक्तेत्यर्थः । विशेषविधि व्याचष्टे-

इषे त्वेति शाखामाच्छिनत्यूर्जे त्वेति संनमयत्यनुमार्ष्टि वा ।

तावन्तौ मन्त्रौ । छिनमोति नाध्याहारः शब्दस्यापि त्वर्थ एव लक्षणीय इति परिभाषायामुपपादितं न विस्मरणीयम् । शस्त्रेण हस्तेन वृक्षात्पृथक्करोतीत्यर्थः । उदकस्पर्शनं स्मार्तम् । संनमनमवान्तरशाखासमीकरणम् । अनुमार्जनमनुलोमं सम- र्शनं विकल्पेन।

इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहमित्याहरति ।

गृहीत्वा विहाराभिमुखो. गच्छतीत्यर्थः । प्राच्यादिगुणत्रयवैशिष्टयमेकस्यां न संभवतीति जातिपदार्थपक्षे जातेः स्तुतिरित्यधिकृतो मन्त्रः । व्यक्तिपदार्थपक्षे 1 । १.क. ग. च. छ. 2. छ. उ. मु। ३ ख. रशाखायु।