"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: . . २द्विपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रागुदीच्यामविकृतोऽन्ययोस्तु प्राचीमुदीचीमित्यसंबद्धपदस्यान्यतरस्य त्यागः . । सर्वमन्त्रत्यागस्त्वनुच... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:४०, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . २द्विपटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रागुदीच्यामविकृतोऽन्ययोस्तु प्राचीमुदीचीमित्यसंबद्धपदस्यान्यतरस्य त्यागः . । सर्वमन्त्रत्यागस्त्वनुचितः । विकृतिष्वपि तथा । यदि न लभ्यते दिक्त्रये तदाऽन्य- दिक्स्थाऽपि ग्राह्या । तस्यां व्यक्तिपक्षे न मन्त्रलोपो विकृतिष्यपि नोह इति वक्ष्यते । अत्रामावास्यायां यजमानयाभीजनं तथा ब्रतोपायनमपि । परेधुरपि पर्वद्वयेऽपि व्रतोपायन:कालं विधास्यति प्रणीतासु प्रणीयमानास्वासनेषु हविष्षु चैतौ साधारणौ कालाविति ।

वायवः स्थेति तया षड्वत्सानपाकरोति ।। ४ ।।

मातृभ्यः पृथक्करोति गृहेऽवस्थापनार्थ, पाने सति दोषे प्रायश्चित्ताभिधानात् । सथा च आसंग मात्रा सह चरति ' इति श्रुतेः। अत एव वैखानसः-अध्वर्युः संगव इषे वेति शाखां छिनत्तीति । संगवात्पूर्व न वसापाकरणं, तावत्सहचार इत्यर्था- दुक्तम् । वत्सानिति पुंलिङ्गमविवक्षितमुद्देश्यगतत्वात् । 'ग्राम्यपशुसंघवतरुणेषु स्त्री' इति सूत्रेण स्त्रीपुंवत्सानामेकशेषेऽपि तरुणेषु पुमाशिष्यते । वायवः स्थोपा- यवः स्थेति मन्त्र उत्तरस्याऽऽदिना पूर्वस्यान्तमिति - परिभाषितत्वात् । वत्सानिति संसृष्टद्रव्यत्वे षडिति द्रव्योवान्तरमेवात् । प्रतिवस मन्त्रावृत्तिव्यपृथक्त्वेऽम्यावर्तत इति परिभाषितत्वाद्वत्सशब्देन बहुवचनान्तेन सर्वोपादानेऽपि संस्कार्यद्रव्यप्राधान्या- युगपत्कर्तुमशक्यत्वाच्च । बहुवचनं षड्वत्सापेक्षमुपरवेषु रसोहणवत् । योक्ष्यमाणाना प्रखवार्थमपाकृतानामेव संस्कारो द्वितीयानिर्देशात् । शाखासाधनं तस्याः शाखाया अपाकरणद्वारा दोहसंस्कारकत्वात् । प्रस्तरेण सह प्रतिपत्तिः । षडवराानित्याप- स्तम्बः । तदपि षट्संख्यया न विरुध्यते न्यूननिवृत्तिमात्रपरत्वासंख्यायास्तत्रापि तिस्रो दोहयित्वा विसृष्टवागुत्तरा यावत्या सन्ति तावतीर्दोहयति । सर्वासां वत्सापाक- रणम् । अत्रोक्तानामभावे बौधायनेनोक्तं 'ताश्चेत्तिस्त्र एव स्युः प्रथमां चोत्तमां चतुर्ग्रहीयादथ चेद्वे एव स्यातामुमे एव निस्त्रिविगृह्णीयादथ चेदेव स्यात्तामेव षद्कृत्वोविगृह्णीयात् । इति । विगृह्णीयाद्विगृह्य विगृह्य दोहयेदित्यर्थः । एवं बौधायने नोक्तम् । तत्रैकस्मिन्नपि वत्से बहुवचनेनापाकरणं नोहः प्रकृतौ प्रतिषेधात् । षट्कृत्वो मन्त्रावृत्तिरुपावसर्जनप्रतिदोहद्रव्यस्य द्रव्यगृथक्त्वेऽभ्यावर्तत इति भवत्येव मन्त्रावृत्तिः । वत्से तु प्रधानानुरोधेन मन्त्रावृत्तिः । द्वयोस्तिसृणामपि दोहे मातृविग्रहणानुप्तोरण ज्ञेयाऽवृत्तिः संस्काराणां वत्से । उपलक्षणमेतबौधायनीय वचनं चतसृणां पञ्चानां वा । किं च विगृह्य दोहसमर्थैव दोह्या प्रथमोत्तमा. मध्यमा १. छ. 'क्षम। २ क. ग. च. छ. स. उ. र. व्यान्त' । ३ क. च. ट. "ते हैं। ४ क. ख. च. ट. ८. "त है।