"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: - ७८ सत्यापाठविरचितं श्रौतसूत्र- प्रथमप्रग्ने- वेस्यपि ज्ञेयम् । तिमृणां तूष्णीं दोहे तु साङ्गस्य पोहशब्दस्याद्वत्सापाकरणज्य- मिरिकमपि तूष्णीमेव । दर्भैर्व... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:४४, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७८ सत्यापाठविरचितं श्रौतसूत्र- प्रथमप्रग्ने- वेस्यपि ज्ञेयम् । तिमृणां तूष्णीं दोहे तु साङ्गस्य पोहशब्दस्याद्वत्सापाकरणज्य- मिरिकमपि तूष्णीमेव ।

दर्भैर्वा सदर्भयेत्येकेषाम् ।

दस्त वाहतः परिभोजनीया । न तस्यां शाखाहरणविधिरविधानान्मन्त्रलिङ्ग- विरोधाच्च । न चान्यस्मिन्द्रव्ये तेनार्थेन संयुज्यमाने धर्मावेश इति वक्ष्यमाणन्याय- प्राप्तिः । तस्य विकृतिविषयस्वेनातिदेशार्थत्वान्न च प्रकृतावूहोऽस्ति । अपाकरणं तु मन्त्रेणैव वत्ससंस्कारत्वात् । अत्र पक्षे शाखाहरणं पवित्रार्थमस्त्येव । तत्र पशुपामह मिति लिहं यजमानस्य पशून्पाहीत्यदृष्टार्थेनोपपन्नम् । पुंस्त्वं वत्सगतमविवक्षितम्- द्देश्यगतत्वात् । वत्सासु मिश्रेष्वपि विधिः समान एव । तयैव सदर्भया शाखया वेत्यर्थः ।

अपाकृतानामेक शाखयोपस्पृशति ।

एक वत्समपाकृतानां मध्ये । दभैरपाकरणे तैरेव सदर्भया तयैव सांनिध्यात्, मापस्तम्बे तथा दर्शनाचेति केचित् । तन्न । तयेति लाघवेन वक्तव्ये गुरुमिर्देशेना- प्रस्तुतत्वमुक्तं, तेन येन केनापि वत्सापाकरणे स्पर्शनं वत्सस्य शाखयैवेति नियमः । पश्वसंवन्धे पशुपामिति लिनविरोधः स्यात् ।

देवो व इति गोचरमभि मातॄः प्रस्थापयति । शाखयैवानुवृत्तेः । स्पष्टमाहाऽऽपस्तम्बः शाखयेति । गावश्चरन्त्यस्मिन्देशे स गोचरस्तुणयुक्तो देशस्तममिमुखाः प्रेरयति । रुद्रस्य हेतिः परि वो वृणक्स्विति मन्त्रान्तः। सकृन्मत्र इत्युक्तमेव ।

इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः। ।

इन्द्रमहेन्द्रयोर्दवतयों दो न्यायशास्त्र इन्द्रमहेन्द्राधिकरणे स्थितः । अस्मच्छाखायां सांनाव्ये कर्मणि महेन्द्रदेवताप्रकाशका मन्त्रा न दृश्यन्ते । दृश्यन्ते (ते) च-'महान्या अय- मभूयो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् ' इत्यर्थवादे देवतैक्यम् । अतो महेन्द्रपद. पन्तो मन्त्रा न सन्तीतीन्द्रपदेनोपलक्षणं मन्त्रेषु कार्यमित्याशङ्कानिवृत्त्यर्थ लाघवेनः लक्षणेनैव शाखान्तरीयान्मत्रान्महेन्द्रपदवतो दर्शयत्यनेन च सूत्रेण । सर्वशाखाप्रत्यय. मेक कर्मेत्युक्तमेव । न चेन्द्रपदवन्तो मन्त्रा महेन्द्रयोगे ब्राह्मणेन विहिता येन लक्षण- याऽपि प्रवर्तेरन् । तदिवमाह-इन्द्र देवता(ता) निगमेषु निगदरूपेषु मन्त्रेषु देवताया हविःसंबन्धो येषु मन्त्रेषु निगम्यते स्पष्टो ज्ञायते ते निगमा नामान्तरेण मन्त्रविशेषा उच्यन्ते न सर्वेऽपि मन्त्रा इति निर्वचनकृद्भिर्नेवण्?कैरुक्त तेषु मन्श्रेषूपलक्षयेत्तत्यदेव १ ख, यागना।