"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२४:
हे "आदुरे शत्रूणाम् आदारयितरिन्द्र "ते तव "वामंवामं यद्यत् वननीयं संभजनीयं धनमस्ति लोके तद्वामं वसु "अर्यमा अरीणां नियमयिता एतन्नामकः "देवो "ददातु प्रयच्छतु। तथा "करूळती कृत्तदन्तः “पूषा पोषकः "देवः “वामं धनं ददातु । तथा “भगः अपि “वामं धनं ददातु । ननु करूळतीत्येतत् संनिहितत्वाद्भग इत्यनेन संबन्धनीयम् । अथवा अर्यमादीनां त्रयाणामपि विशेषणत्वेन भाव्यम् । कथं पूष्णो विशेषणं स्यादिति साकाङ्क्षत्वात् । न । सांनिध्याकाङ्क्षयोः सद्भावेऽपि योग्यतामन्तरेण अन्वयायोगात् । तस्मात् पूषा प्रपिष्टभागोऽदन्तको हि' (तै. सं. २. ६. ८. ५) इत्यादिश्रुतिषु पूष्ण एवादन्तकत्वेन प्रसिद्धेः व्यवहितस्यापि तस्यैव विशेषणत्वं युक्तम् । वामं बननीयं भवति' (निरु. ६. ३१) इत्यादि निरुक्तमत्र द्रष्टव्यम् ॥ ॥ २३ ॥
}}
 
== ==
{{टिप्पणी|
४.३०.१८ उत त्या सद्य आर्या इति
 
[https://sites.google.com/site/vedastudy/samrd-dhi-sarasvati/ सरयूउपरि संक्षिप्त टिप्पणी]
}}
 
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३०" इत्यस्माद् प्रतिप्राप्तम्