"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
आ। यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥२॥
 
ये पूर्वे स्तोतार ऋषयो योनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् । स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्