"ऋग्वेदः सूक्तं १०.११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२१:
विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥६
 
हे अग्ने त्वदीयं ज्योतिः “पितरा पितरौ सर्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति “उदीरथ उद्गमय । तत्र दृष्टान्तः । आकार उपमार्थे । रात्रेर्नक्षत्रादिदीप्तीनां च जरयितृत्वात् “जारः आदित्यः । स यथा द्यावापृथिव्यौ प्रति “भगं भजनीयं स्वीयं ज्योतिरुद्गमयति तद्वत् । “हर्यतः यागं कामथमानान्कामयमानान् प्रति “इयक्षति यजमानो यष्टुमिच्छति । “हृत्तः हृदयेन च इष्यति । इषिरयं गत्यर्थः शुद्धोऽप्युपसर्गपूर्वो द्रष्टव्यः । अधीष्यति देवान् यष्टुमधिगच्छति । “विवक्ति विवक्षति । शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च । “वह्निः वोढा स्तुतीनां देवान् प्रति प्रापयिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । “मखः । यज्ञनामैतत् । अत्र तत्प्रयोक्ताध्वर्युरुच्यते । स च “तविष्यते । तविषिर्वृद्धयर्थः। स चात्रान्तर्णीतसनर्थश्च द्रष्टव्यः। तुतुविषति स्तोत्रलक्षणाः स्तुतीवर्धयितुमिच्छतीत्यर्थः । “असुरः प्राणवान् प्रज्ञावान् वा । ब्रह्मेति शेषः। “मती मत्या बुद्ध्या “वेपते । कर्मवैगुण्यात् बिभ्यत् कम्पते। हे अग्ने यतो यजमानः सर्वर्त्विजश्च स्वस्वकर्म कर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११" इत्यस्माद् प्रतिप्राप्तम्