"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५७:
अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊं इति । त्वे ॥८
 
“सखायः समानख्यानाः “ब्राह्मणाः “हृदा बुद्धिमतां हृदयेन “तष्टेषु निश्चितेषु परिकल्पितेषु “[https://bharatkalyan97.blogspot.com/2021/01/manojavitva-siddhi-arun-kumar-upadhyay.html मनसो “जवेषु] गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणाः “यत् यदा “संयजन्ते संगछन्ते । यजिरत्र संगतिकरणवाची । “अत्र अस्मिन् ब्राह्मणसंघे “त्वम् अविज्ञातार्थमेकं पुरुषं “वेद्याभिः वेदितव्याभिः विद्याभिः प्रवृत्तिभिर्वा “वि “जहुः विशेषेण परित्यजन्ति । “अह इति विनिश्चये । “ओहब्रह्माणः । ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येषां ते तथोक्ताः । तादृशास्त एके विद्वांसः “वि “चरन्ति यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते । उः प्रसिद्धौ। ‘ हृदा तष्टेषु मनसां प्रजवेषु' (निरु. [https://sa.wikisource.org/s/705 १३. १३] ) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्