"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३३:
सप्तमी।
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ।। ७ ।।
उ०. [https://sa.wikisource.org/s/eri औद्ग्रभणानि] जुहोति । आकृत्यैआकूत्यै प्रयुजे । आकुवनमाकूतिः प्रयत्नः आत्मनो धर्मः । मनसः प्रेरणाय भवति । प्रयुङ्क्त इति प्रयुक् आकूतिलक्षणाय प्रयोगलक्षणाय च अग्नयेस्वाहा सुहुतमस्तु । मेधायै मनसे मेधालक्षणाय मनोलक्षणाय च अग्नये स्वाहा । जपति दीक्षायै तपसे । दीक्षालक्षणाय तपोलक्षणाय च अग्नये स्वाहा । तपःशब्देन चोपसद उच्यन्ते । सरस्वत्यै पूष्णे । 'वाग्वै सरस्वती पशवो वै पूषा' इति श्रुतिः । वाग्लक्षणाय पशुलक्षणाय च अग्नये स्वाहा । पशुसाध्यत्वाद्यज्ञस्य पशुग्रहणम् । आपो देवीः विराट् लिङ्गोक्ता देवता । हे आपोदेव्यः, बृहत्यो महत्यः । विश्वशंभुवः सर्वस्य जगतः सुखेन भावयित्र्यः । हे द्यावापृथिव्यौ, हे उरो हे विस्तीर्ण अन्तरिक्ष, युष्मभ्यं च बृहस्पतये च । हविषा विधेम । विदधातिर्दानकर्मा । हविषेति प्रथमाया विपरिणामः । हविर्दध्मः ॥ ७ ॥
म० अतः परं षडौद्ग्रभणहोममन्त्राः । चतुर्णामग्निर्देवता । 'औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमन्त्रमिति' (का० ७।३।१६)। आकूत्यै प्रयुजेऽग्नये स्वाहा । अग्नये वह्निदेवाय स्वाहा सुहुतमिदमस्तु । किंभूतायाग्नये । आकूत्यै प्रयुजे । यज्ञं करिष्यामीत्येवंविधो मानसः संकल्प आकूतिः तस्यै तत्संपूर्त्यै । प्रयुजे प्रयुङ्क्तेऽसौ प्रयुक् तस्मै । संकल्पसिद्ध्यै निर्विघ्नं प्रेरयते इत्यर्थः । इति प्रथमो मन्त्रः ॥ मेधायै मनसेऽग्नये स्वाहा । श्रुतयोर्मन्त्रयोर्धारणशक्तिर्मेधा तत्सिद्ध्यर्थं मनसे मदीयमनोभिमानिनेऽग्नये स्वाहा सुहुतमस्तु । विद्याधारणशक्तिर्हि मनसः स्वास्थ्ये सत्येव भवति । इति द्वितीयः ॥ जपति । दीक्षायै तपसेऽग्नये स्वाहा । व्रतनियमो दीक्षा तत्सिद्ध्यर्थं मदीयशारीरतपोभिमानिनेऽग्नये स्वाहा । नियमसंरक्षणं तपसैव भवति । ततस्तपोदात्रे इत्यर्थः । इति तृतीयः ॥ सरस्वत्यै पूष्णेऽग्नये स्वाहा । मन्त्रोत्चारणशक्तिः सरस्वती तत्सिद्ध्यर्थं पूष्णे पुष्णातीति पूषा तस्मै वागिन्द्रियपोषकायाग्नये सुहुतमस्तु । इति चतुर्थः ॥ आपो देवीः । लिङ्गोक्तदेवता विराट् । यस्या एकादशाक्षराः त्रयः पादाः सा विराट् । दशकास्त्रयो विराडेकादशका वेत्युक्तेः । अत्र प्रथमो द्वादशार्णस्तेनैकाधिका । हे आपः, हे द्यावापृथिवी द्यावापृथिव्यौ, हे उरो विस्तीर्ण अन्तरिक्ष, युष्मभ्यं बृहस्पतये च हविषा विधेम हविर्दद्मः । द्वितीयार्थे तृतीया । विधतिर्दानकर्मा । स्वाहा सुहुतमस्तु । किंभूता आपः । देवीः देव्यो द्योतमानाः । बृहतीः बृहत्यः प्रभूताः । उभयत्र पूर्वसवर्णः । विश्वशंभुवः विश्वस्य जगतः शं सुखं भावयन्ति जनयन्ति वा विश्वशंभुवः । इति पञ्चमो मन्त्रः ॥ ७ ॥
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्