"शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
८.२.१
 
द्वितीयां चितिमुपदधाति । एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन्नयं वै लोकः प्रथमा चितिरिममेव तल्लोकं संस्कृत्य समारोहन् - ८.२.१.[]
 
तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना एतां द्वितीयां चितिमपश्यन्यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत् - ८.२.१.[]
 
तेऽश्विनावब्रुवन् । युवं वै ब्रह्माणौ भिषजौ स्थो युवं न इमां द्वितीयां चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नोऽस्या अग्निचित्याया अध्वर्यू भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां तस्मादाहुरश्विनावेव देवानामध्वर्यू इति - ८.२.१.३
भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां तस्मादाहुरश्विनावेव देवानामध्वर्यू इति - ८.२.१.[३]
 
स उपदधाति । ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ वा एषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत्तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्तां ध्रुवं योनिमासीद साधुयेति स्थिरं योनिमासीद साधुयेत्येतदुख्यस्य केतुं प्रथमं जुषाणेत्ययं वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तं जुषाणेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् - ८.२.१.[]
 
कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वै द्वितीया चितिः स्योने सीद सदने पृथिव्या इति पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदन इत्येतदभि त्वा रुद्रा वसवो गृणन्त्वित्येतास्त्वां देवता अभिगृणन्त्वित्येतदिमा ब्रह्म पीपिहि सौभगायेतीमा ब्रह्माव सौभगायेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् - ८.२.१.[]
 
स्वैर्दक्षैर्दक्षपितेह सीदेति । स्वेन वीर्येणेह सीदेत्येतद्देवानां सुम्ने बृहते रणायेति देवानां सुम्नाय महते रणायेत्येतत्पितेवैधि सूनव आ सुशेवेति यथा पिता पुत्राय स्योनः सुशेव एवं सुशेवैधीत्येतत्स्वावेशा तन्वा संविशस्वेत्यात्मा वै तनूः स्वावेशेनात्मना संविशस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् - ८.२.१.[]
 
पृथिव्याः पुरीषमसीति । पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद्द्वितीयाऽप्सो नामेति रसो नामेत्येतत्तां त्वा विश्वे अभिगृणन्तु देवा इति तां त्वा सर्वेऽभिगृणन्तु देवा इत्येतत्स्तोमपृष्ठा घृतवतीह सीदेति यान्त्स्तोमानस्यां तंस्यमानो भवति तैरेषा स्तोमपृष्ठा प्रजावदस्मे द्रविणा यजस्वेति प्रजावदस्मे द्रविणमायजस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् - ८.२.१.[]
 
ता एता दिशः । ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता नानोपदधाति नाना सादयति नाना सूददोहसाऽधिवदति नाना हि दिशः - ८.२.१.[]
 
अथ पञ्चमीं दिश्यामुपदधाति । ऊर्ध्वा ह सा दिक्सा या सोर्ध्वा दिगसौ स आदित्यो ऽमुमेवैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषोऽन्तरेण दक्षिणां दिशमेति - ८.२.१.९
ऽमुमेवैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषोऽन्तरेण दक्षिणां दिशमेति - ८.२.१.[९]
 
अदित्यास्त्वा पृष्ठे सादयामीति । इयं वा अदितिरस्यामेवैनमेतत्प्रतिष्ठायाम्प्रतिष्ठापयत्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीम्भुवनानामित्यन्तरिक्षस्य ह्येष धर्ता विष्टम्भनो दिशामधिपतिर्भुवनानामूर्मिर्द्रप्सो अपामसीति रसो वा ऊर्मिर्विश्वकर्मा त ऋषिरिति प्रजापतिर्वै विश्वकर्मा प्रजापतिसृष्टासीत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् - ८.२.१.[१०]
 
यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम् - ८.२.१.[११]
 
तावब्रवीत् । उप मेतं प्रति म एतद्धत्तं येन मे युवमुदक्रमिष्टमिति किं नौ ततो भविष्यतीति युवद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम् - ८.२.१.[१२]
 
तद्या एताः पञ्चाश्विन्यः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति - ८.२.१.१३
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति - ८.२.१.[१३]
 
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति । यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ वा अस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत्तदेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्ताम् - ८.२.१.[१४]
 
कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वा अस्यैतदात्मनः स्वैर्दक्षैर्दक्षपितेह सीदेत्यदक्षयतामेवास्यैतदात्मनः पृथिव्याः पुरीषमसीति पुरीषसंहितमिव वा अस्यैतदात्मनो रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ पृष्टिसाचयमिव वा अस्यैतदात्मनः सर्वत उपदधाति सर्वतो ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम् - ८.२.१.[१५]
 
अथ ऋतव्येष्टकोपधानम्
 
अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति शुक्रश्च शुचिश्च ग्रैष्मावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति - ८.२.१.[१६]
 
तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तदस्यैषा द्वितीया चितिस्तद्वस्य ग्रीष्मऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.२.१.[१७]
 
यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्यैषा द्वितीया चितिस्तद्वस्य ग्रीष्मऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति - ८.२.१.[१८]
 
</span></poem>