"ऋग्वेदः सूक्तं ८.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४४:
तम् । ऊं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् ।
 
इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः<ref>तु. नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति - माश. [https://sa.wikisource.org/s/h7g ११.२.३.९] । प्रत्नं वै बृहद् उप रथन्तरम् - जै.ब्रा. [https://sa.wikisource.org/s/ef3 ३.१२]</ref> । वृषभम् । विशेम ॥६
 
परस्परं स्तोतार आहुः । “तमु तमेवेन्द्रं वयं संहत्य "स्तवाम स्तोत्रं करवाम । “यः इन्द्रः “इमा इमानि भूतानि “जजान जनयामास । तस्मात् “अस्मात् इन्द्रादेव “विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्ति वा “अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति । तेनानेन “इन्द्रेण वयं “गीर्भिः स्तुतिभिः “मित्रम् । लुप्तभावप्रत्ययेन निर्देशः । मैत्रीं “दिधिषेम धारयेम । ‘धिष धारणे इति धातुं केचिद्वदन्ति । यद्वा । मित्रम् । छान्दसमेकवचनम् । वयमिन्द्रेण सह मित्राणि सुहृदो भवामेति गीर्भिरिन्द्रं शब्दयेम । ‘ धिष शब्दे । जौहोत्यादिकः । अत्र व्यत्ययेन द्विविकरणता श्लुश्च शश्च। ततः “नमोभिः क्रियमाणैर्नमस्कारैर्दीयमानैर्हविर्भिर्वा “वृषभं कामानां वर्षकमिन्द्रम् “उपो "विशेम अस्मदभिमुखमेव कुर्याम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९६" इत्यस्माद् प्रतिप्राप्तम्