"ऋग्वेदः सूक्तं ७.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०५:
द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥११
 
“उत अपि च हे “वसिष्ठ “मैत्रावरुणः मित्रावरुणयोः पुत्रः “असि । हे “ब्रह्मन् वसिष्ठ “उर्वश्याः अप्सरसः “मनसः ममायं पुत्रः स्यादितीदृशात् संकल्पात् “द्संप्ते“द्रप्सं रेतः मित्रावरुणयोरुर्वशीदर्शनात् “स्कन्नम् आसीत् । तस्मात् “अधि “जातः असि । तथा च वक्ष्यते ‘सत्रे ह जातौ' इत्यृचि । एवं जातं “त्वा त्वां “दैव्येन देवसंबन्धिना “ब्रह्मणा वेदराशिना अहं भुवा युक्तं पुष्करे “विश्वे “देवाः “अददन्त अधारयन्त। तथा च अदितेर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते-’ तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ।। तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्र संबभूवतुः ॥ बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥ कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥ मानेन संमितो यस्मात्तस्मान्मान्य इहोच्यते । यद्वा कुम्भादृषिजातः कुम्भेनापि हि मीयते ॥ कुम्भ इत्यभिधानं च परिमाणस्य लक्ष्यते। ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥ सर्वतः पुष्करे तं हि विश्वे देवा अधारयन् ।' ( बृहद्दे. ५. १४९-१५५) इति ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३३" इत्यस्माद् प्रतिप्राप्तम्