"ऋग्वेदः सूक्तं १.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७३:
पावकासः । शुचयः । सूर्याःऽइव । सत्वानः । न । द्रप्सिनः । घोरऽवर्पसः ॥२
 
“ते मरुतः “दिवः अन्तरिक्षात् “जज्ञिरे प्रादुर्बभूवुः । कीदृशाः । “ऋष्वासः दर्शनीयाः "उक्षणः सेक्तारः । युवान इत्यर्थः । "रुद्रस्य “मर्याः । मर्यशब्दो मनुष्यवाची इह मरुतां मर्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मन्त्रान्तरे स्पष्टम् - आ ते पितर्मरुतां सुम्नमेतु' ( ऋ. सं. २. ३३. १ ) इति । “असुराः शत्रूणां निरसितारः "अरेपसः । रेप इति पापनाम । पापरहिताः “पावकासः सर्वेषां शोधकाः “सूर्याइव “शुचयः दीप्ताः “सत्वानो “न यथा परमेश्वरस्य भूतगणा अतिशायितबलपराक्रमाः तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यन्ते - अथो ये अस्य सत्वानः ' ( तै. सं. [https://sa.wikisource.org/s/1e29 ४. ५. १. ३]) इत्यादौ तथा दर्शनात् । “द्रप्सिनः वृष्ट्युदकबिन्दुभिर्युक्ताः । ‘ मरुतः सृष्टां वृष्टिं नयन्ति' (तै. सं. [https://sa.wikisource.org/s/1e1x २. ४. १०.२] ) इति श्रुतेः। “घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ‘ ऋषी गतौ । गत्यर्था बुद्ध्यर्था इति अत्र ज्ञानार्थः । ‘ सर्वनिघृष्व ' ( उ. सू. १. १५१ ) इत्यादौ प्रत्ययान्तो निपातितः । ‘ आज्जसेरसुक्' । उक्षणः । ‘ वा षपूर्वस्य निगमे ' इति उपधादीर्घाभावः । अरेपसः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु ।' प्र ईरसद्योस्तुट्च' ( उ. सू. ४. ५२६ ) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात् केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६४" इत्यस्माद् प्रतिप्राप्तम्