"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०१:
गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥१६
 
"दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये "एकं मुख्यं "कपिलम् एतन्नामानं "तं प्रसिद्धमृषिम् । कीदृशम् । "समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। "हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । "क्रतवे यज्ञादिजगत्र्"वर्तनकर्मणेयज्ञादिजगत्प्रवर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । "पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । "माता प्रकृत्याख्या च "वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु "सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । "अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः "गर्भं "तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती “बिभर्ति प्रजापतेर्नियोगाद्धारयति ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्