"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६९:
== ==
{{टिप्पणी|
सोमयागे सुत्यादिवसे माध्यन्दिन सवने ग्रावस्तुद् ऋत्विजः स्वशस्त्रस्य उच्चारणं करोति। तस्य शस्त्रस्य ऋचानां समूहः ऋग्वेदे १०.९४ सूक्ते प्रकटयति। अस्य सूक्तस्य ऋषिः अर्बुदः कार्द्रवेयः भवति एवं देवता ग्रावाणः भवति। निरुक्तोपनिषत् [[निरुक्तोपनिषत्|१.१०]] अनुसारेण, यदा गर्भे शुक्रस्य स्थापना भवति, तदा पंचरात्रि पर्यन्तं तस्य संज्ञा बुद्बुदं भवति, सप्तरात्रि पर्यन्तं पेशी, चत्वारिंशत् रात्रिद्विसप्तरात्रि पर्यन्तं अर्बुदं एवं पंचविशति रात्रि पर्यन्तं घनं भवति। शतपथ ब्राह्मणानुसारेण यदा वायुः पृथिवीतत्त्वे प्रवेशं करोति, तदा बुद्बुदस्य सृष्टिः भवति। बुद्बुदस्य रचनानन्तरं मृद, शर्करा, अश्मा, हिरण्यादस्य क्रमानुसारेण सृष्टिः भवति। अत्र वायुः प्राणानां रूपमस्ति। अतः यदा निरुक्तोपनिषदे बुद्बुदस्य रचनस्य कथनं प्रकटयति, अयं संकेतः भवति यत् जड तत्त्वे यदा वचसः, मनसः, प्राणस्य प्रवेशं भवति, तदा गर्भः संजायते। अर्बुदं बुद्बुदस्य एकं विकसित रूपमस्ति। अर्बुदस्य विकसिततमं रूपं ग्रावाणः सन्ति। ग्रावाणः अर्थात् दिव्याः प्राणाः। ग्रावाणः रूपाः ते प्राणाः अशुद्धात् सोमात् शुद्धस्य सोमस्य विश्लेषणं कर्तुं समर्थाः भविष्यन्ति। ग्री – विज्ञाने। अथर्ववेदे अपि अर्बुदस्य सूक्तं प्रकटयति। अनेनानुसारेण अर्बुदस्य विकसिततमं रूपं न्यर्बुदि अस्ति, अयं प्रतीयते। लौकिकां भाषायां अर्बुदं, न्यर्बुदं संख्यानां क्रमिक रूपेण वर्धिताः रूपाः भवन्ति – अर्बुदं – अरब(१००कोटि)।
लक्ष्मीनारायण संहिता [[लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५१|१.५५१]] मध्ये अर्बुदाचलस्य अतिरिक्तं रहस्यं प्रकटी भवति यत् त्रिपुष्कराणां तादात्म्यं अर्बुदाचलस्य व्योम, शिखर एवं भूमि अथवा सरोवराणां सह भवति। अतः त्रिपुष्कराणां ये गुणाः सन्ति, तेषामनुसारेण अर्बुदाचलस्य गुणानां ग्रहणं अपि बोधगम्यं भवति।
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्