"नाट्यशास्त्रम्/अध्यायः १" इत्यस्य संस्करणे भेदः

<poem> .. '''नाट्यशास्त्रम् अध्याय १ ..''' .. श्रीरस्तु ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:५०, १३ जनवरी २०१३ इत्यस्य संस्करणं

<poem> .. नाट्यशास्त्रम् अध्याय १ ..

       .. श्रीरस्तु ..

भरतमुनिप्रणीतं नाट्यशास्त्रम्

अथ प्रथमोऽध्यायः . प्रणम्य शिरसा देवौ पितामहमहेश्वरौ . नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् .. १..

समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् . अनध्याये कदाचित्तु भरतं नाट्यकोविदम् .. २..

मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा . पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः .. ३..

योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः . नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते .. ४..

कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः . सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि .. ५..

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति .. ६..

भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः . श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः .. ७..

पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे . त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु .. ८..

ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते . ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते .. ९..

देवदानवगन्धर्वयक्षरक्षोमहोरगैः . जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते .. १०..

महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः . क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् .. ११..

न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु . तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् .. १२..

एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च . सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् .. १३..

( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु . वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ..) धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् . भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् .. १४..

सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् . नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् .. १५..

एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् . नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् .. १६..

जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च . यजुर्वेदादभिनयान् रसानाथर्वणादपि .. १७..

वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना . एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना .. १८..

उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् . इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् .. १९..

कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः . तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया .. २०..

तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् . प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् .. २१..

ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम . अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि .. २२..

य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः . एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा .. २३..

श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः . त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ .. २४..

आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् . पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः .. २५..

शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा . जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा .. २६..

सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा . कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा .. २७..

जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा . कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् .. २८..

कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा . बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् .. २९..

तैतिलं भार्गवं चैव शुचिं बहुलमेव च . अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् .. ३०..

ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा . मागधं सरलं चैव कर्तारं चोग्रमेव च .. ३१..

तुषारं पार्षदं चैव गौतमं बादरायणम् . विशालं शबलं चैव सुनामं मेषमेव च .. ३२..

कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् . नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा .. ३३..

पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा . अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च .. ३४..

कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा . लाजं भयानकं चैव बीभत्सं सविचक्षणम् .. ३५..

पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च . विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च .. ३६..

श्यामायनं माठरं च लोहिताङ्गं तथैव च . संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च .. ३७..

शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च . शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा .. ३८.. विद्युतं शातजङ्घं च रौद्रं वीरमथापि च . पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया .. ३९..

प्रयोजितं पुत्रशतं यथाभूमिविभागशः . यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः .. ४०..

भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा . समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः .. ४१..

परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया . अथाह मां सुरगुरुः कैशिकिमपि योजय .. ४२..

यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम . एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः .. ४३..

दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् . नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका .. ४४..

दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः . कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा .. ४५..

अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते . ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः .. ४६..

नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः . मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् .. ४७..

सौदामिनीं देवदत्तां देवसेनां मनोरमाम् . सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा .. ४८..

सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा . मागधीमर्जुनीं चैव सरलां केरलां धृतिम् .. ४९..

नन्दां सपुष्कलां चैव कलमां चैव मे ददौ . स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा .. ५०. . नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः . एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह .. ५१..

स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् . उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः .. ५२..

नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् . एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः .. ५३. . महानयं प्रयोगस्य समयः प्रत्युपस्थितः . अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते .. ५४..

अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् . ततस्तस्मिन्ध्वजमहे निहतासुरदानवे .. ५५..

प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे . पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता .. ५६..

अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता . तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः .. ५७..

सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका . ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः .. ५८..

प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै . प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् .. ५९..

ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् . सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च .. ६०..

विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा . श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती .. ६१..

शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः . तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् .. ६२..

अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा . दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः .. ६३..

एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने . अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः .. ६४..

विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् . न क्षमिष्यामहे नाट्यमेतदागम्यतामिति .. ६५..

ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः . वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् .. ६६..

तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् . कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् .. ६७..

सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् .. ६८.. उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् .. सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ..६९..

रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् . जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ..७०..

निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः . संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ..७१..

अहो प्रहरणं दिव्यमिदमासादितं त्वया . जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ..७२..

यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः . तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ..७३..

शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः . दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ..७४..

एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् . रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ..७५..

प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः . त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ..७६..

दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् . उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ..७७..

निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने . अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ..७८..

ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः . कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ..७९..

ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् . सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ..८०..

प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः . सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ..८१..

ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः . आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् .. ८२..

दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः . अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः .. ८३..

रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः . लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः .. ८४..

नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे . वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः .. ८५..

वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः . आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ .. ८६..

धारणीश्वथ भूतानि शालास्वप्सरस्तथा . सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः .. ८७..


द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च . स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ .. ८८..

देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् . द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च .. ८९..

पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् . स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी .. ९०..

स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने . भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः .. ९१..

जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् . तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः .. ९२..

शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा . तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च .. ९३..

पञ्चमे च महानागाः शेषवासुकितक्षकाः . एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः .. ९४..

रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः . इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् .. ९५..

पातालवासिनो ये च यक्षगुह्यकपन्नगाः . अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः .९६..

नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती . विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः .. ९७..

यान्येतानि नियुक्तानि दैवतानीह रक्षणे . एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः .. ९८..

एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः . साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया .. ९९..

पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च . तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते .. १००..

देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह . कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः .. १०१..

ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः . दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः .. १०२..

योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया . प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः .. १०३..

तन्नैतदेवं कर्तव्यं त्वया लोकपितामह . यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः .. १०४..

विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् . अलं वो मन्युना दैत्या विषादं त्यजतानघाः .. १०५..

भवतां देवतानां च शुभाशुभविकल्पकः . कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः .. १०६..

नैकान्ततोऽत्र भवतां देवानां चानुभावनम् . त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् .. १०७..

क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः . \क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः .. १०८..

धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् . निग्रहो दुर्विनीतानां विनीतानां दमक्रिया .. १०९..

क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् . अबुधानां विबोधश्च वैदुष्यं विदुषामपि .. ११०...

ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च . अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् .. १११..

नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् . लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् .. ११२..

उत्तमाधममध्यानां नराणां कर्मसंश्रयम् . हितोपदेशजननं धृतिक्रीडासुखादिकृत् .. ११३..

( एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ . सर्वोपदेशजननं नाट्यं लोके भविष्यति .. ) दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् . विश्रान्तिजननं काले नाट्यमेतद्भविष्यति .. ११४..

धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् . लोकोपदेशजननं नाट्यमेतद्भविष्यति .. ११५..

न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला . नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते .. ११६..

तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति . सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति .. ११७.. ( येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ..)

देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् . ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् .. ११८..

योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः . सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते .. ११९..

( वेदविद्येतिहासानामाख्यानपरिकल्पनम् . विनोदकरणं लोके नाट्यमेतद्भविष्यति .. श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् . विनोदजननं लोके नाट्यमेतद्भविष्यति ..) एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः . क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे .. १२०..

बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः . भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् .. १२१..

मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ . अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् .. १२२..

अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति . निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति .. १२३.. यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् . तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः .. १२४..

नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति . न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः .. १२५..

यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति . स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति .. १२६..

एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः . रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् .. १२७..


इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः .

<poem>