"काशीपञ्चकम्" इत्यस्य संस्करणे भेदः

.. काशीपञ्चकम् .. .. काशीपञ्चकम् .. मनोनिवृत्त... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:४१, २९ मार्च् २०१३ इत्यस्य संस्करणं

.. काशीपञ्चकम् ..

          .. काशीपञ्चकम् ..

मनोनिवृत्तिः परमोपशान्तिः

      सा तीर्थवर्या मणिकर्णिका च .

ज्ञानप्रवाहा विमलादिगङ्गा

      सा काशिकाहं निजबोधरूपा .. १..

यस्यामिदं कल्पितमिन्द्रजालं

      चराचरं भाति मनोविलासम् .

सच्चित्सुखैका परमात्मरूपा

      सा काशिकाहं निजबोधरूपा .. २..

कोशेषु पञ्चस्वधिराजमाना

      बुद्धिर्भवानी प्रतिदेहगेहम् .

साक्षी शिवः सर्वगतोऽन्तरात्मा

      सा काशिकाहं निजबोधरूपा .. ३..

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका . सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..

काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा .

      भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .

विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा

      देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..
                                      --शङ्कराचार्य
"https://sa.wikisource.org/w/index.php?title=काशीपञ्चकम्&oldid=33680" इत्यस्माद् प्रतिप्राप्तम्