"गोपालविंशतिस्तोत्रम्" इत्यस्य संस्करणे भेदः

.. गोपालविंशतिस्तोत्रम् .. श्रीमान् वेंकटनाथार... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ६:
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् || १||
वाचं निजाङ्करसिकां प्रसमीक्षमाणो
वक्त्रारविन्दविनिवेशितपांचजन्यः |
वर्णः त्रिकोणरूचिरे वरपुण्डरीके
बद्धासनो जयति वल्लवचक्रवर्ती || २||
आम्नायगन्धरुदितस्फुरिताधरोष्ठम्
आस्राविलेक्षणमनुक्षणमन्दहासम् |
गोपालडिम्भवपुषं कुहना जनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम् || ३||
आविर्भवत्वनिभृताभरणं पुरस्तात्
आकुंचितैकचरण निभृहितान्यपादम् |
दध्नानिबद्धमुखरेण निबद्धतालं
नाथस्य नन्दभवने नवनीतनाट्यम् || ४||
कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिः
संदश्य मातुरनिशं कुचचूचुकाग्रम् |
नन्दस्य वक्त्रमवलोकयतो मुरारेर्-
मन्दस्थितं मममनीषितमातनोतु || ५||
हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् |
पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता || ६||
व्रजयोषिदपाङ्ग वेधनीयं
मथुराभाग्यमनन्यभोग्यमीडे |
वसुदेववधू स्तनन्धयं तद्-
किमपि ब्रह्म किशोरभावदृश्यम् || ८||
परिवर्तितकन्धरं भयेन
स्मितफुल्लाधरपल्लवं स्मरामि |
विटपित्वनिरासकं कयोश्चिद्-
विपुलोलूखलकर्षकं कुमारम् || ९||
निकटेषु निशामयामि नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणम् |
यमलार्जुनदृष्टबालकेलिं
यमुनासाक्षिकयौवनं युवानम् || १०||
पदवीमदवीयसीं विमुक्ते-
रटवीं सम्पदम्बु वाहयन्तीम् |
अरूणाधरसाभिलाषवंशां
करूणां कारणमानुषीं भजामि || ११||
अनिमेषनिवेष्णीयमक्ष्णो-
रजहद्यौवनमाविरस्तु चित्ते |
कलहायितकुन्तलं कलापैः
करूणोन्मादकविग्रहं महो मे || १२||
अनुयायिमनोज्ञवंशनालै-
रवतु स्पर्शितवल्लवीविमोहैः |
अनघस्मितशीतलैरसौ माम्
अनुकम्पासरिदम्बुजैरपाङ्गैः || १३||
अधराहितचारूवंशनाला
मकुटालम्बिमयूरपिञ्च्छमालाः |
हरिनीलशिलाविभङ्गनीलाः
प्रतिभाः सन्तु ममान्तिमप्रयाणे || १४||
अखिलानवलोकयामि कालान्
महिलादीनभुजान्तरस्यूनः |
अभिलाषपदं व्रजाङ्गनानाम्
अभिलाक्रमदूरमाभिरूप्यम् || १५||
महसे महिताय मौलिना
विनतेनाञ्जलिमञ्जनत्विषे |
कलयामि विमुग्धवल्लवी-
वलयाभाषितमञ्जुवेणवे || १६||
जयतु ललितवृत्तिं शिक्षितो वल्लवीनां
शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः |
अखिलभुवनरक्षागोपवेशस्य विष्णो-
रधरमणिसुधायामंशवान् वंशनालः || १७||
चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः |
गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं
गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी || १८||
लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या-
मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः |
मेघश्यामो जयति ललितो मेखलादत्तवेणु-
र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः || १९||
प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालीं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः |
भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद्
वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः || २०||
वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् |
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित्करकमलयोरञ्जलिं याचमानः || २१||
इत्यनन्यमनसा विनिर्मितां
वेंकटेशकविना स्तुतिं पठन् |
दिव्यवेणुरसिकं समीक्षते
दैवतं किमपि यौवतप्रियम् || २२||
|| इति गोपालविंशतिस्तोत्रं सम्पूर्णम् ||
"https://sa.wikisource.org/wiki/गोपालविंशतिस्तोत्रम्" इत्यस्माद् प्रतिप्राप्तम्