"जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
{{header
| title = जैमिनीयं ब्राह्मणम्/काण्डम् २|काण्डम् २]]
| author =
| translator =
| section = कण्डिका २११-२२०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् २/२०१-२१०|कण्डिका २०१-२१०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् २/२२१-२३०|कण्डिका २२१-२३०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">
अथैत ऋतुष्टोमाः। ऋतवो वा अकामयन्त समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीमहि, पुनर्नवाः पुनर्नवा स्यामेति। त एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। स वसन्तः प्रथमो ऽयजत। स एतेनायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य। अथ शिशिर ऐक्षत - येनैवेमे पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। स एतेनैवायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य॥2.211॥