"कौपीनपञ्चकम्" इत्यस्य संस्करणे भेदः

॥कौपीन पंचकं ( शंकराचार्य) || कौपीन पंचकम् व... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:१९, २९ मार्च् २०१३ इत्यस्य संस्करणं

॥कौपीन पंचकं ( शंकराचार्य) ||


         कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः | विशोकमन्तःकरणे चरन्तः कौपीनवन्तः खलु भाग्यवन्तः ||१||

(1)

मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तुममन्त्रयन्तः | कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ||२||

स्वानन्दभावे परितुष्टिमन्तः सुशान्तसर्वेन्द्रियवृत्तिमन्तः | अहर्निशं ब्रह्मसुखे रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ||३||


देहादिभावं परिवर्तयन्तः स्वात्मानमात्मन्यवलोकयन्तः | नान्तं न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ||४||


ब्रह्माक्षरं पावनमुच्चरन्तो ब्रह्माहमस्मीति विभावयन्तः | भिक्षाशिनो दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ||५||


||इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं संपूर्णम् ||

"https://sa.wikisource.org/w/index.php?title=कौपीनपञ्चकम्&oldid=33690" इत्यस्माद् प्रतिप्राप्तम्