"साधकपञ्चकम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
||साधन पञ्चकं || वेदो नित्यमधीयतां तदुदितं कर्म... नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
||साधन पञ्चकं ||
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
||इति परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचित
साधन पञ्चकं संपूर्णम् ||
</poem>
|