"ब्रह्मपुराणम्/अध्यायः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११:
 
'''तत्रादौ स्वायम्भुवमनुवंशवर्णनम्'''
<poem><span style="font-size: 14pt; line-height: 200%">लोमहर्षण उवाच।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः ।
लोमहर्षण उवाच
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् १।।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् १
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत २।
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत २
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ३।
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम्
स वै स्वायंभुवो विप्राः पुरुषो मनुरुच्यते ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ३
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ४।
स वै स्वायंभुवो विप्राः पुरुषो मनुरुच्यते
वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ४
प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ५।
वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः ।
प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ५
काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ६।
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ६
उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ७।
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ७
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ८।
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ८
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः ९।
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः ९
तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः १०।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः १०
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ११।
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः
तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ११
देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ १२।
तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् ।
देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ १२
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः १३।
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम्
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छंभुर्व्यजायत ।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः १३
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् १४।
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छंभुर्व्यजायत
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् १४
रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् १५।
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम्
अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् १५
प्रजापतेरात्मजायां वीरण्यस्य महात्मनः १६।
अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम्
मनोरजायन्त दश नड्वलायां महौजसः ।
प्रजापतेरात्मजायां वीरण्यस्य महात्मनः १६
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः १७।
मनोरजायन्त दश नड्वलायां महौजसः
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः १७
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव १८।
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः
अभिमन्युश्च दशमो नड्वलायां महौजसः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव १८
पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् १९।
अभिमन्युश्च दशमो नड्वलायां महौजसः
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् ।
पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् १९
अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत २०।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम्
अपचारेण वेणस्य प्रकोपः सुमहानभूत् ।
अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत २०
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् २१।
अपचारेण वेणस्य प्रकोपः सुमहानभूत्
वेणस्य मथिते पाणौ संबभूव महान्नृपः ।
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् २१
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः २२।
वेणस्य मथिते पाणौ संबभूव महान्नृपः
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ।
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः २२
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः २३।
करिष्यति महातेजा यशश्च प्राप्स्यते महत्
पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः ।
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः २३
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः २४।
पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः २४
तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता २५।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता २५
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः २६।
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ।
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः २६
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा २७।
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन् ।
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा २७
पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ २८।
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन्
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ।
पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ २८
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् २९।
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् २९
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ३०।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ
हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः ।
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ३०
प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ३१।
हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः
समुद्र तनयायां तु कृतदारोऽभवत्प्रभुः ।
प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ३१
महतस्तपसः पारे सवर्णायां प्रजापतिः ३२।
समुद्र तनयायां तु कृतदारोऽभवत्प्रभुः
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
महतस्तपसः पारे सवर्णायां प्रजापतिः ३२
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ३३।
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ३३
दश वर्षसहस्राणि समुद्र सलिलेशयाः ३४।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
दश वर्षसहस्राणि समुद्र सलिलेशयाः ३४
अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ३५।
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः
नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ।
अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ३५
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ३६।
नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः
तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ३६
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ३७।
तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः
उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत् ।
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ३७
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ३८।
उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत्
द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु ।
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ३८
उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ३९।
द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ३९
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ४०।
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ४०
भविष्यं जानता तात धृता गर्भेण वै मया ४१।
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भविष्यं जानता तात धृता गर्भेण वै मया ४१
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ४२।
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ४२
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ४३।
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ४३
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ४४।
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ४४
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ४५।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ४५
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ४६।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ४६
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ४७।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ४७
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ४८।
ददौ दश स धर्माय कश्यपाय त्रयोदश
तासु देवाः खगा गावो नागा दितिजदानवाः ।
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ४८
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ४९।
तासु देवाः खगा गावो नागा दितिजदानवाः
ततः प्रभृति विप्रेन्द्रा ः! प्रजा मैथुनसंभवाः ।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ४९
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ५०।
ततः प्रभृति विप्रेन्द्रा ः! प्रजा मैथुनसंभवाः
मुनय ऊचुः।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ५०
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
मुनय ऊचुः
संभवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ५१।
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः ।
संभवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ५१
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ५२।
अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ५२
एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ।
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ५३।
एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि
लोमहर्षण उवाच।
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ५३
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः ।
लोमहर्षण उवाच
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ५४।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः
युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः ।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ५४
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ५५।
युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः
ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ५५
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ५६।
ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ५६
प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ५७।
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम्
इति श्रीब्राह्मे महापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः २ ।
प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ५७
इति श्रीब्राह्मे महापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः २
</span></poem>
 
 
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्