"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
 
संस्थितेषु सवनेषु षोडशिनि चातिरात्रे प्रशास्तः प्रसुहीत्युक्तः सर्पतेति प्रशास्ताऽतिसृजेत् । होता दक्षिणेनौदुम्बरीमञ्जसेतरेऽपरया द्वारोत्तरां वे-दिश्रोणीमभिनिःसर्पन्ति १ मृगतीर्थमित्येतदाचक्षते २ एतेन निष्क्रम्य यथार्थं न त्वेवान्यन्मूत्रेभ्यः ३ एते न निष्क्रम्य कृत्वोदकार्थं वेद्यां समस्तानुपस्था-यापरया द्वारा नित्ययाऽऽवृता सदोद्वार्ये चाभिमृश्य तूष्णीं प्रतिप्रसर्पन्ति ४ एषाऽऽवृत् सर्पतेतिवचने ५ पूर्वयैव गृहपतिः ६ ११ 5.11</span></poem>
 
 
[[File:अर्बुद कार्द्रवेयः ग्रावस्तुत ऋत्विजः.jpg|thumb|अर्बुद कार्द्रवेयः ग्रावस्तुत ऋत्विजः]]
<poem><span style="font-size: 14pt; line-height: 200%">एतस्मिन् काले ग्रावस्तुत् प्रपद्यते १ तस्योक्तमुपस्थानं २ पूर्वया द्वारा हविर्धाने प्रपद्य दक्षिणस्य हविर्धानस्य प्रागुदगुत्तरस्याक्षशिरसस्तृणं निरस्य राजानमभिमुखोऽवतिष्ठते ३ नात्रोपवेशनः ४ यो अद्य सौम्य इति तु ५ अथास्मा अध्वर्युरुष्णीषं प्रयच्छतिप्रयच्छत<poem><span style="font-size: 14pt; line-height: 200%">ि ६ तदञ्जलिना प्रतिगृह्य । त्रिः प्रदक्षिणं शिरः समुखं वेष्टयित्वा यदा सोमांशूनभिषवाय व्यपोहन्त्यथ ग्राव्णोऽभिष्टुयात् ७ मध्यमस्वरेणेदं सवनं ८ अभि त्वा देव सवित<ref>ऋ. [https://sa.wikisource.org/s/133d १.२४.३]</ref>र्युञ्जते मन उत युञ्जते धिय<ref>[https://sa.wikisource.org/s/1404 ५.८१.१]</ref> आतून इन्द्र क्षुमन्तं<ref>[https://sa.wikisource.org/s/13l4 ८.८१.१]</ref> मा चिदन्यद्विशंसत<ref>[https://sa.wikisource.org/s/13lq ८.१.१]</ref> प्रैते वदत्वित्यर्बुदं<ref>[https://sa.wikisource.org/s/139u १०.९४.१]</ref> ९ प्रागुत्तमाया आ व ऋञ्जसे<ref>[https://sa.wikisource.org/s/139g १०.७६.८]</ref> प्र वो ग्रावाण इति<ref>[https://sa.wikisource.org/s/13bo १०.१७५.१]</ref> १० सूक्तयोरन्तरोपरिष्टात् पुरस्ताद्वा पावमानीरोप्य<ref>[https://sa.wikisource.org/s/13fd ९.१.१]</ref> यथार्थमावाग्ग्रहग्रहणाच्छिष्टया परिधाय वेद्यं यजमानस्योष्णीषं ११ आदाय यथार्थमन्त्येष्वहःसु १२ प्रतिप्रयच्छेदितरेषु १३ अथापरमभिरूपं कुर्यादिति गाणगारिः १४ आप्यायस्व समेतु त इति तिस्रो मृजन्ति त्वा दशक्षिप एतमुत्यं दशक्षिपो मृज्यमानः सुहस्त्या दशभिर्विवस्वतो दुहन्ति सप्तैकामधुक्षत् पिप्युषीमिषमा कलशेषु धावति पवित्रे परिषिच्यत इत्येका कलशेषु धावति श्येनो वर्म विगाहत इति द्वे । एतासामर्बुदस्य चतुर्थीमुद्धृत्य तृचान्तेषु तृचानवदध्यात् १५ आप्याय्यमाने प्रथमं १६ मृज्यमाने द्वितीय १७ दुह्यमाने तृतीयं १८ आसिच्यमाने चतुर्थं १९ बृहच्छब्दे बृहच्छब्दे चतुर्थीं २० मा चिदन्यद्धि शंसतेति यदि ग्रावाणः संह्रादेरन् २१ समानमन्यत् २२ अर्बुदमेवेत्येके २३ प्र वो ग्रावाण इत्येके २४ उक्तं सर्पणं २५ स्तुते माध्यन्दिने पवमाने विहृत्याङ्गारान् २६ १२ 5.12