"रामायणम्/बालकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥'''<BR><BR>
<poem>
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥
 
पङ्क्तिः २०:
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥
 
कुशाम्बं कुशनाभं च असूर्तरजसं वसुम्
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥
 
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥
 
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥
 
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम्
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥
 
असूर्तरजसो नाम धर्मारण्यं महीपतिः
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥
 
एषा वसुमती राम वसोस्तस्य महात्मनः
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥
 
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥
 
सैषा हि मागधी राम वसोस्तस्य महात्मनः
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥
 
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥
 
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥
 
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥
 
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥
 
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥
 
अहं वः कामये सर्वा भार्या मम भविष्यथ
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥
 
पङ्क्तिः ६५:
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥
 
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥
 
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥
 
कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥
 
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम्
अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥
 
पिता हि प्रभुरस्माकं दैवतं परमं च सः
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
 
तासां तु वचनं श्रुत्वा हरिः परमकोपनः
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥
 
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥
 
स च ता दयिता भग्नाः कन्याः परमशोभनाः
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥
 
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ
एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३२" इत्यस्माद् प्रतिप्राप्तम्