"गरुडपुराणम्/आचारकाण्डः/अध्यायः २०७" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
"{{header | title = ../../ | author = वेदव्यासः | translator = | sectio..." इत्यनेन सह आधेस्य विनिमयः कृतः ।
पङ्क्तिः ३:
| author = वेदव्यासः
| translator =
| section = अध्यायःMIstake २०७to be rectified
| previous = [[../अध्यायः २०६|आचारकाण्डः, अध्यायः २०६]]
| next = [[../अध्यायः २०८|आचारकाण्डः, अध्यायः २०८]]
| notes =
}}
 
<poem>
श्रीगरुडमहापुराणम् २०५
कुमार उवाच ।
अथ व्याकरणं वक्ष्ये कात्यायन समासतः ।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.१ ॥</br>
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः ।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.२ ॥</br>
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.३ ॥</br>
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.४ ॥</br>
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।
येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.५ ॥</br>
ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके ।
यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १,२०५.६ ॥</br>
पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके ।
यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १,२०५.७ ॥</br>
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ।
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १,२०५.८ ॥</br>
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,२०५.९ ॥</br>
पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे ।
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,२०५.१० ॥</br>
वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती ।
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १,२०५.११ ॥</br>
द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि ।
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १,२०५.१२ ॥</br>
नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,२०५.१३ ॥</br>
तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १,२०५.१४ ॥</br>
स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः ।
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १,२०५.१५ ॥</br>
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १,२०५.१६ ॥</br>
न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके ।
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १,२०५.१७ ॥</br>
भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः ।
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १,२०५.१८ ॥</br>
मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् ।
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १,२०५.१९ ॥</br>
आदेशा इड्बहिमहि धातुतोथ णिजादिवत् ।
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १,२०५.२० ॥</br>
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १,२०५.२१ ॥</br>
लडीरितो वर्तमाने स्मेनातीते च धातुतः ।
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १,२०५.२२ ॥</br>
विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत् ।
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १,२०५.२३ ॥</br>
लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति ।
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १,२०५.२४ ॥</br>
दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः ।
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १,२०५.२५ ॥</br>
सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १,२०५.२६ ॥</br>
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः
</poem>