"ऋग्वेदः सूक्तं ८.२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३२:
बभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥१
 
अत्र दशानामृचां किंचित्पदलिङ्गात् पृथग्देवताः । अत्र प्रथमायां बभ्रुरित्यनेन सोमोऽभिधीयते। सौम्यं बभ्रुमा लभेत' (तै. सं. २. १. ३. ३) इत्यादिषु दृष्टत्वात् । "[http://puranastudy.000space.com/pur_index20/babhru.htm बभ्रुः] बभ्रुवर्णः शबलतादिषु परिपक्वः । यद्वा। ‘डुभृञ् धारणपोषणयोः'। ' कुर्भ्रश्च ' (उ. सू. १. २२) इति कुप्रत्ययः । सर्वस्य सुधामयैः किरणैस्तावदुद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि खलु । तादृशः “विषुणः विश्वगञ्चनः "सूनरः सुष्ठु रात्रीणां नेता । रात्रयश्चन्द्रनेतृकाः खलु । एतादृशः "युवा प्रतिदिवसमाविर्भूतत्वात्तरुणः "एकः देवः सोमः “हिरण्ययं हिरण्मयम् "अञ्जि । अभिव्यज्यते प्रकाश्यते अनेन इत्यञ्जि आभरणम् । अभिव्यक्तिसाधनं कुण्डलमुकुटमदिकं स्वशरीरम् "अङ्क्ते अभिव्यञ्जयति ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२९" इत्यस्माद् प्रतिप्राप्तम्