"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४३" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:४९, २१ आगस्ट् २०१३ इत्यस्य संस्करणं

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४२ गरुडपुराणम्
अध्यायः ४३
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४४ →

श्रीगरुडमहापुराणम् ४३
श्रीविष्णुरुवाच ।
जलाग्निबन्धनभ्रष्टा प्रव्रज्यानाशकच्युताः ।
ऐन्दवाभ्यां विशुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥ २,४३.१ ॥

ऊनद्वादशवर्षस्य चतुर्वर्षाधिकस्य च ।
प्रायश्चित्तं चरेन्माता पिता वान्योऽपि बान्धवः ॥ २,४३.२ ॥

अतो बालनरस्यापि नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥ २,४३.३ ॥

रक्तस्य दर्शने दष्टे आतुरा स्त्री भवेद्यदि ।
चतुर्थेऽह्नि पदादींश्च त्यक्त्वा स्नात्वा विशुध्यति ॥ २,४३.४ ॥

आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः ।
स्नात्वास्नात्वास्पृशेदेनं ततः शुध्येत्स आतुरः ॥ २,४३.५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे शुद्धिनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः