"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:५८, २१ आगस्ट् २०१३ इत्यस्य संस्करणं

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १३ गरुडपुराणम्
अध्यायः १४
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १५ →

श्रीगरुडमहापुराणम् १४
गरुड उवाच ।
आर्तेन म्रियमाणेन यद्दत्तं तत्फलं वद ।
स्वस्थावस्थेन दत्तेन विधिहीनेन वा विभो ॥ २,१४.१ ॥

श्रीकृष्ण उवाच ।
एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोशतम् ।
सहस्रं म्रियमाणस्य दत्तं वित्तविवर्जितम् ॥ २,१४.२ ॥

मृतस्यैव पुनर्लक्षं विधिपूतं च तत्समम् ।
तीर्थपात्रसमायोगादेका गौर्लक्षपुण्यदा ॥ २,१४.३ ॥

पात्रे दत्ते खगश्रेष्ठ अहन्यहनि वर्धते ।
दातुर्दानमपापाय ज्ञानिनां च प्रतिग्रहः ॥ २,१४.४ ॥

विषशीतापहो मन्त्रवह्निः किं दोषभाजनम् ।
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥ २,१४.५ ॥

नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता ।
अपात्रे जातु गौर्दत्ता दातारं नरकं नयेत् ॥ २,१४.६ ॥

कुलैकविंशतियुतं ग्रहीतारं च पातयेत् ।
देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यत् ॥ २,१४.७ ॥

धनं भूमिगतं यद्वत्स्वहस्तेन निवेशितम् ।
तद्वत्फलमवाप्नोति ह्यहं वच्मि खगेश्वर ॥ २,१४.८ ॥

अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम् ।
प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः ॥ २,१४.९ ॥

स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम् ।
अक्षयं याति तत्सर्वं यथाज्यं च हुताशने ॥ २,१४.१० ॥

एका चैकस्य दातव्या शय्या कन्या पयस्विनी ।
सा विक्रीता वा दहत्यासप्तमं कुलम् ॥ २,१४.११ ॥

तस्मात्सर्वं प्रकुर्वीत चञ्चले जीविते सति ।
गृहीतदानपाथेयः सुखं याति महाध्वनि ॥ २,१४.१२ ॥

अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि ।
एवं ज्ञात्वा खगश्रेष्ठ वृषयज्ञं समाचरेत् ॥ २,१४.१३ ॥

अकृत्वा म्रियते यस्तु अपुत्रो नैव मुक्तिभाक् ।
अपुत्रोऽपि हि यः कुर्यात्सुखं याति महापथे ॥ २,१४.१४ ॥

अग्निहोत्राधिभिर्यज्ञैर्दानैश्च विविधैरपि ।
न तां गतिमवाप्नोति वृषोत्सर्गेण या गतिः ॥ २,१४.१५ ॥

यज्ञानां चैव सर्वेषां वृषयज्ञस्तथोत्तमः ।
तस्मात्सर्वप्रयत्नेन वृषयज्ञं समाचरेत् ॥ २,१४.१६ ॥

गरुड उवाच ।
कथयस्व प्रसादेन क्षयाहं चौर्ध्वदैहिकम् ।
कस्मिन्काले तिथौ कस्यां विधिना केन तद्भवेत् ॥ २,१४.१७ ॥

कृत्वा किं फलमाप्नोति एतन्मे वद साम्प्रतम् ।
त्वत्प्रसादेन गोविन्द मुक्ते भवति मानवः ॥ २,१४.१८ ॥

श्रीकृष्ण उवाच ।
कार्तिकादिषु मासेषु याम्यायतगते रवौ ।
शुक्लपक्षे तथा पक्षिन्द्वादश्यादितिथौ शुभे ॥ २,१४.१९ ॥

शुभे लग्ने मुहूर्ते वा शुचौ देशे समाहितः ।
ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणम् ॥ २,१४.२० ॥

जपहोमैस्तथा दानैः कुर्याद्दहेस्य शोधनम् ।
पुण्येऽभिजित्सुनक्षत्रे ग्रहान्देवान्समर्चयेत् ॥ २,१४.२१ ॥

होमं कुर्याद्यथाशक्ति मन्त्रैश्च विविधैरपि ।
ग्रहाणां स्थापनं कुर्यात्पूर्वं चैव खगेश्वर ॥ २,१४.२२ ॥

मातॄणां पूजनं कार्यं वसोर्धारां च पातयेत् ।
वह्निं संस्थाप्य तत्रैव पूर्णं होमं तु कारयेत् ॥ २,१४.२३ ॥

शालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेत् ।
वृषं सम्पूज्य तत्रैव वस्त्रालङ्कारभूषणैः ॥ २,१४.२४ ॥

चतस्रो वत्सतर्यश्च पूर्वं समधिवासयेत् ।
प्रदक्षिणं ततः कुर्याद्धोमान्ते च विसर्जनम् ॥ २,१४.२५ ॥

इमं मन्त्रं समुच्चार्य उत्तराभिमुखः स्थितः ।
धर्म त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ॥ २,१४.२६ ॥

तवोत्सर्गप्रभावान्मामुद्धरस्वभवार्णावात् ।
अबिषिच्य शुभैर्मन्त्रैः पावनैर्विधिपूर्वकम् ॥ २,१४.२७ ॥

तनक्रीडन्तिमन्त्रेण वृषोत्सर्गं तु कारयेत् ।
अभिषिञ्चेत्ततो नीलं रुद्रकुम्भो दकेन तु ॥ २,१४.२८ ॥

नाभिमूले समास्थाय तदम्बु मूर्धनि न्यसेत् ।
अन्न (आत्म) श्राद्धं ततः कुर्याद्दद्याद्दानं द्विजोत्तमे ॥ २,१४.२९ ॥

उदकेचैव गन्तव्यं जलं तत्र प्रदापयेत् ।
यदिष्टं जीवतस्त्वासीत्तच्च दद्यात्स्वशक्तितः ॥ २,१४.३० ॥

न्यूनं संपूर्णतां याति वृषोत्सर्गे कृते सति ।
सुतृप्तो दुस्तरे मार्गे मृतो याति न संशयः ॥ २,१४.३१ ॥

यमलोकं न पश्यन्ति सदा दानरता नराः ।
यावन्न दीयते जन्तोः श्राद्धं चैकादशाहिकम् ॥ २,१४.३२ ॥

स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति ।
त्रयोदशा तथा सप्त पञ्च त्रीणी क्रमेण तु ॥ २,१४.३३ ॥

पददानानि कुर्वीत श्रद्धाभक्तिसमन्वितः ।
तिलपात्राणि कुर्वीत सप्त पञ्च यथाक्रमम् ॥ २,१४.३४ ॥

ब्राह्मणान् भोजयेत्पश्चादेकां गां च प्रदापयेत् ।
वृषं हि शन्नोदेवीति वेदोक्तविधिना ततः ॥ २,१४.३५ ॥

चतसृभिर्वत्सतरीभिः परिणयनमाचरेत् ।
वामे चक्रं प्रदातव्यं त्रिशूलं दक्षिणे तथा ॥ २,१४.३६ ॥

मूल्यं दद्याद्वृषस्यापि तं वृषं च विसर्जयेत् ।
एकोद्दिष्टविधानेन स्वाहाकारेण वुद्धिमान् ॥ २,१४.३७ ॥

कुर्यादेकादशाहं च द्वादशाहं च यत्नतः ।
सपिण्डीकरणादर्वाक्कुर्याच्छ्राद्धानि षोडश ॥ २,१४.३८ ॥

ब्राह्मणान् भोजयित्वा तु पददानानि दापयेत् ।
कापोसोपरि संस्थाप्य ताम्रपात्रे तथाच्युतम् ॥ २,१४.३९ ॥

वस्त्रेणाच्छाद्य तत्रस्थमर्घं दद्याच्छुभैः फलैः ।
नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् ॥ २,१४.४० ॥

कांस्यपात्रे घृतं स्थाप्य वैतरण्या निमित्ततः ।
नावारोहणं कुर्यात्पूजयेद्गरुडध्वजम् ॥ २,१४.४१ ॥

आत्मवित्तानुसारेण तच्च दानमनन्तकम् ।
भवसागरमग्नानां शोकतापार्तिदुः खिनाम् ॥ २,१४.४२ ॥

धर्मप्लवविहीनानां तारको हि जनार्दनः ।
तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥ २,१४.४३ ॥

सप्तधान्यं क्षितिर्गावो ह्येकैकं पावनं स्मृतम् ।
तिलपात्राणि कुर्वीत शय्यादानं च दापयेत् ॥ २,१४.४४ ॥

दीनानाथविशिष्टेभ्यो दद्याच्छक्त्या च दक्षिणाम् ।
एवं यः कुरुते तार्क्ष्य पुत्रवानप्यपुत्रवान् ॥ २,१४.४५ ॥

स सिद्धिं समवाप्नोति यथा ते ब्रह्मचारिणः ।
नित्यं नैमित्तिकं कुर्याद्यावज्जीवति मानवः ॥ २,१४.४६ ॥

यः कश्चित्क्रियते धर्मस्तत्फलं चाक्षयं भवेत् ।
तीर्थयात्राव्रतादीनां श्राद्धं संवत्सरस्य हि ॥ २,१४.४७ ॥

देवतानां गुरूणां च मातापित्रोस्तथैव च ।
पुण्यं देयं प्रयत्नेन प्रत्यहं वर्धते खग ॥ २,१४.४८ ॥

अस्मिन्यज्ञेः हियः कश्चिद्भूरिदानं प्रयच्छति ।
तत्तस्य चाक्षयं सर्वं वेदिकायां यथा किल ॥ २,१४.४९ ॥

यथा पूज्यतमा लोके यतयो ब्रह्मचारिणः ।
तथैव प्रतिपूज्यन्ते लोके सर्वे च नित्यशः ॥ २,१४.५० ॥

वरदोऽहं सदा तस्य चतुर्वक्त्रस्तथा हरः ।
ते यान्ति परमांल्लोकानिति सत्यं वचो मम ॥ २,१४.५१ ॥

उत्सृष्टो वृषभो यत्र पिबत्यपो जलाशये ।
शृङ्गेणालिखते वापि भूमिं नित्यं प्रहर्षितः ॥ २,१४.५२ ॥

पितॄणामन्नपानं च प्रभूतमुपतिष्ठति ।
पौर्णमास्याममायां वा तिलपात्राणि दापयेत् ॥ २,१४.५३ ॥

संक्रान्तीनां सहस्राणि सूर्यपर्वशतानि च ।
दत्त्वा यत्फलमाप्नोति तद्वै नीलविसर्जने ॥ २,१४.५४ ॥

वत्सतर्यः प्रदातव्या ब्राह्मणेभ्यः पदानि च ।
तिलपात्राणि देयानि शिवभक्तद्विजेषु च ॥ २,१४.५५ ॥

उमामहेश्वरं चैकं परिधाप्य प्रिदापयेत् ।
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥ २,१४.५६ ॥

ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ।
प्रेतत्वान्मोक्षमिच्छन्तो ये करिष्यन्ति सत्क्रियाम् ॥ २,१४.५७ ॥

यास्यन्ति ते परांल्लोकानिति सत्यं वचो मम ।
एतत्ते सर्वमाख्यातं मया चैवोर्ध्वदैहिकम् ॥ २,१४.५८ ॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
श्रुत्वा महात्म्यमतुलं गरुडो हर्षमागतः ।
मानुषाणां हितार्थाय पुनः प्रपच्छकेशवम् ॥ २,१४.५९ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे गोदानवृषोत्सर्गदशदानभूरिदानादिनिरूपणं नाम चतुर्दशोऽध्यायः