"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ११" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:५९, २१ आगस्ट् २०१३ इत्यस्य संस्करणं

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १० गरुडपुराणम्
अध्यायः ११
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १२ →

श्रीगरुडमहापुराणम् ११
गरुड उवाच ।
मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम् ।
म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित् ॥ २,११.१ ॥

इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत् ।
क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति ॥ २,११.२ ॥

प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ।
काश्यपोऽहं सुरश्रेष्ठ विनतागर्भ संभवः ।
यमलोकं कथं यान्ति विष्णुलोकं च मानवाः ॥ २,११.३ ॥

श्रीकृष्ण उवाच ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ २,११.४ ॥

अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ।
हीनजातौ प्रजायेत रत्नानामपहारकः ॥ २,११.५ ॥

यंयं काममभिध्यायेत्स तल्लिङ्गोऽभिजायते ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ २,११.६ ॥

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
वाक्चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः ॥ २,११.७ ॥

अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः ।
आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै ॥ २,११.८ ॥

सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै ।
मृताहे वार्षिकं यावद्यथोक्तविधिना खग ॥ २,११.९ ॥

कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः ।
देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम् ॥ २,११.१० ॥

मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर ।
मृतः स सुखमाप्नोति मायापाशैर्न बध्यते ।
पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत् ॥ २,११.११ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवाहे ऊर्ध्वाधोगतिज्ञापकोत्क्रमणद्वारनिरूपणं नामैकादशोऽध्य्याः