"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥१
 
पर इति सकारान्तं परस्तादित्यस्यार्थे । परशब्दाच्छान्दसोऽसिप्रत्ययः ‘परो दिवा पर एना पृथिव्या ' (ऋ. सं. १०. ८२.५) इति यथा। मात्रयेति व्यत्ययेन तृतीया। “मात्रया “परः परस्ताद्वर्तमानयापरिमितया “तन्वा शरीरेण “वृधान वर्धमान हे विष्णो “ते तव “महित्वं महत्त्वं “न “अन्वश्नुवन्ति नानुव्याप्नुवन्ति । त्रैविक्रमसमये यत्तव माहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं न शक्यत इत्यर्थः । “ते तव “उभे “रजसी उभौ लोकौ “पृथिव्याः आरभ्य पृथिवीमन्तरिक्षं च “विद्म जानीमः । वयं चक्षुषोपलभामहे नान्यत् । हे “देव द्योतमान “विष्णो “त्वम् एव “परमस्य स्वर्गादेरुकृष्टलोकस्यस्वर्गादेरुत्कृष्टलोकस्य । द्वितीयार्थे षष्ठी। परमं लोकं “वित्से जानासि । अतस्तव महत्त्वं न केनापि व्याप्तुं शक्यमिति भावः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्