"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४६:
 
 
पूर्वोक्त एव पशौ न ते विष्णो' इति वपाया अनुवाक्या। सूत्रितं च - न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्याम् ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1byh ३. ८]) इति ॥
 
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
पङ्क्तिः ६०:
उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥२
 
हे "देव दानादिगुणयुक्त “विष्णो "ते तव “महिम्नः महत्त्वस्य “परं विप्रकृष्टम् “अन्तम् अवसानं “जायमानः प्रादुर्भवञ्जनः “न "आप न प्राप्नोति । तथा "जातः प्रादुर्भूतोऽपि जनः “न एव प्राप्नोति । तव महत्त्वस्यावसानं नास्ति । अत एव सर्वैर्न ज्ञायत इति भावः । कोऽसौ महिमा तमाह। “ऋष्वं दर्शनीयं "बृहन्तं महान्तं “नाकं द्युलोकम् “उदस्तभ्नाः त्वमूर्ध्वमधारयः । यथाधो न पतति तथा । “पृथिव्याः भूमेः संबन्धिनीं “प्राचीं “ककुभं च "दाधर्थ धारितवानसि । उपलक्षणमेतत् सर्वस्य भूतजातस्य । तथा च मन्त्रान्तरं- य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा' (ऋ. सं. [[ऋग्वेदः सूक्तं १.१५४|१. १५४. ४]] ) इति ॥
 
 
पूर्वोक्त एव पशौ ‘ इरावती ' इति हविषो याज्या । सूत्रितं च - इरावती धेनुमती हि भूतं विश्वकर्मन्हविषा वावृधान इति द्वे ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1byh ३. ८]) इति ॥
 
इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।
पङ्क्तिः ७७:
वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥३
 
हे द्यावापृथिव्यौ “मनुषे स्तुवते मनुष्याय "दशस्या दित्सया युक्ते युवाम् “इरावती अन्नवत्यौ “धेनुमती गोमत्यौ “सूयवसिनी शोभनयवसे च “भूतम् अभूतम् । हिशब्दः प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतमित्यर्थः । हे “विष्णो “एते इमे “रोदसी द्यावापृथिव्यौ “व्यस्तभ्नाः विविधमधारयः। पृथिवीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम्। अपि च “पृथिवीं प्रथितामिमां भूमिम् “अभितः सर्वत्र स्थितैः “मयूखैः पर्वतैः “दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानित्यर्थः । पर्वता हि विष्णोः स्वभूताः । ‘ विष्णुः पर्वतानामधिपतिः ' ( तै. सं. [https://sa.wikisource.org/s/1e25 ३. ४. ५. १] ) इति श्रुतेः ॥
 
 
पङ्क्तिः १०७:
शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥५
 
हे “इन्द्राविष्णू “दृंहिताः दृढीकृताः “नव “नवतिं “च नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “शम्बरस्य स्वभूतानि “श्नथिष्टम् अहिंसिष्टम्। 'श्नथ हिंसायाम्। अपि च “शतं “सहस्रं “च “वर्चिनः “असुरस्य “वीरान् “अप्रति प्रतिद्वन्द्विनो यथा न भवन्ति तथा “साकं सह संघश एव “हथः अहिंसिष्टम् । 'यो वर्चिनः शतमिन्द्रः सहस्रम् '। (ऋ. सं. [[ऋग्वेदः सूक्तं २.१४|२. १४. ६]]) इति हि निगमान्तरम् ॥
 
 
पङ्क्तिः १२५:
 
 
अभ्युदयेष्टौ विष्णोः शिपिविष्टस्य ‘ वषट् ते ' इत्येषानुवाक्या । सूत्रितं च -- भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आ कृणोमि ' (आश्व. श्रौ. [https://sa.wikisource.org/s/1byh ३. १३]) इति ॥
 
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्