"ऋग्वेदः सूक्तं १०.१२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७०:
“बीभत्सूनां कम्पमानावयवानां यद्वा मेघेन बद्धानाम् । हन्ति गच्छतीति हंसः सूर्यः । तं “सयुजं सखायम् “आहुः । ब्रह्मवादिनः कथयन्ति । एतदेवाह । “दिव्यानां दिवि भवानामान्तरिक्षाणाम् “अपां “सख्ये सखित्वे “चरन्तं वर्तमानम् । “अनुष्टुभम् अनुष्टोभनीयं स्तोतव्यम् । यद्वा । अनुष्टुप्शब्देन तत्संबद्धो यागः स्तुतिर्वा लक्ष्यते । अनुष्टुप्संबद्धं यागमनुष्टुप्छन्दसा युक्तं स्तुतिविशेषं वा । अनुलक्ष्य “चर्चूर्यमाणं पुनःपुनश्चरन्तं गच्छन्तम् ॥ चरतेर्यङि ‘ उत्परस्यातः' (पा. सू. ७. ४. ८८) इत्यभ्यासादुत्तरस्याकारस्योत्वम् । “चरफलोश्च' (पा. सू. ७. ४, ८७ ) इति नुकि प्राप्ते व्यत्ययेनाभ्यासस्य रुगागमः ॥ एवंगुणविशिष्टम् “इन्द्रं “कवयः क्रान्तदर्शिन ऋषयः “मनीषा मनीषया स्तुत्या “नि चिक्युः पूजयन्ति । यद्वा । मनीषा बुद्ध्या नि चिक्युः जानन्ति ।। मनीषाशब्दात्तृतीयायाः ‘ सुपां सुलुक्' इति लुक् । 'चायृ पूजानिशामनयोः' इत्यस्माच्छान्दसे लिटि ‘ चायः की' (पा. सू. ६. १.३५) इति प्रकृतेः कीभावः । ‘एरनेकाचः' (पा. सू. ६. ४. ८२ ) इति यण् ॥ ॥१०॥
}}
 
== ==
{{टिप्पणी|
१०.१२४.९ बीभत्सूनां सयुजं हंसमाहुः इति
 
इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैच्छंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते । ऐ [https://sa.wikisource.org/s/w1d ३,१५]
 
[https://puranastudy.angelfire.com/pur_index2/anushtup.htm अनुष्टुप् उपरि संदर्भाः]
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२४" इत्यस्माद् प्रतिप्राप्तम्