"जैमिनीयं ब्राह्मणम्/काण्डम् ३/२०१-२१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १४:
अपाद् उ शिप्रिय् अन्धसस् सुदक्षस्य प्रहोषिणः।
इन्दोर् इन्द्रो यवाशिरः॥
इति। तम् अब्रवीत् किंकामो मा स्तौषीति। इमम् एव मे पुत्रं समैरयेत्य् अब्रवीत्। तम् ए मथाया इत्य् उदमथ्नात्। तं समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ सुश्रवा स्थौरायणो ऽपश्यत् तस्मात् [https://sa.wikisource.org/s/2gsf सौश्रवसम्] इत्य् आख्यायते॥3.202॥