"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०५:
तम् । ऊं इति । अकृण्वन् । त्रेधा । भुवे । कम् । सः । ओषधीः । पचति । विश्वऽरूपाः ॥१०
 
“देवासः देवाः “शक्तिभिः कर्मभिः “रोदसिप्रा द्यावापृथिव्योरापूरयितारम् “अग्निं सूर्यात्मकं “दिवि द्युलोके “स्तोमेन “हि स्तुत्या खलु “अजीजनन् उत्पादितवन्तः । अपि च “तमु तमेव “कं सुखकरमग्निं यज्ञे “त्रेधा “भुवे त्रेधाभावाय “अकृण्वन् कुर्वन्ति । “सः पृथिव्यां वर्तमानः “विश्वरूपाः सर्वरूपाः “ओषधीः व्रीह्याद्यास्तेन तेनोपकारेण “पचति । अत्र यास्कः-’ स्तोमेन यं हि दिवि देवा सोऽग्निमजनयन् शक्तिभिः कर्मभिर्द्यावापृथिव्योः पूरणं तमकुर्वंस्त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । यदस्य दिवि तृतीयं तदसावादित्य इति हि ब्राह्मणम्' ( निरु. [https://sa.wikisource.org/s/6zm ७.२८]) इति ॥ ॥ ११ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्