"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३७:
सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥१८
 
“तद्बन्धुः । सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः । तन्मातृक इत्यर्थः । “सूरिः स्तुतेः प्रेरकः “दिवि वर्तमानस्य “ते तव स्वभूत इति शेषः । त्वदपत्यभूत इति यावत् । षष्ठीसामर्थ्यात्संबन्धसामान्यं प्रतीयते । तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वेऽपि पर्यवस्यति । सूर्यनाभानेदिष्ठयोः संबन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते । स च “धियधाः“धियंधाः कर्मणां धारको “नाभानेदिष्ठः "वेनन् अङ्गिरोदत्तं गोसहस्रं वेनन् कामयन् “प्र “रपति प्रलपति । स्तौतीत्यर्थः। “वा अपि चेत्यर्थः । “सा द्यौः “नः अस्माकं “परमा उत्कृष्टा “नाभिः बन्धिका च "अस्य आदित्यस्य अधिष्ठानभूतास्ति । “घ इति पूरणः । “अहं “तत् तस्यादित्यस्य “पश्चा पश्चादनन्तरं “कतिथः कतिपयानां पूरणः “आस अभवम् । अनेन ममादित्येन जन्यजनकभावः संबन्धः संनिकृष्ट इत्युक्तं भवति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्