"ऋग्वेदः सूक्तं ७.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥१
 
ऋषिरात्मानं स्तुतौ प्रेरयति । हे ऋषे “तिस्रः“तिस्<ref>द्र. माश. [https://sa.wikisource.org/s/ecl ७.१.२.१८]</ref>रः त्रिविधा ऋग्यजुःसामात्मिकाः स्तुतिरूपाः “वाचः “प्र “वद प्रब्रूहि । कीदृश्यो वाचः । “ज्योतिरग्राः । ज्योतिर्द्योतमानः प्रणवोऽग्रे प्रमुखो यासां तादृशीः । “याः वाचः “मधुदोघं मधुन उदकस्य दोहकं वृष्ट्युदकस्य कर्तारम् “एतत् नभसि दृश्यमानम् “ऊधः उद्धृतं मेघम् । यद्वा । लुप्तोपममेतत् । ऊध इव पयस आश्रयभूतं मेघं “दुह्रे दुहते । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१ ) इति तलोपः । बाहुलको रुट् । स्तोत्रैः प्रीतो हि पर्जन्यो मेधैर्वर्षयति । अतो वाच एव दुहन्तीत्युपचर्यते । यद्वा । वदेति व्यत्ययेन मध्यमः । तिस्र इति द्रुतविलम्बितमध्यमभेदेन त्रिविधा ज्योतिरग्रा विद्युत्प्रमुखा वाचः प्रवदेतेति। या गर्जितलक्षणा वाचो वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति । एवंभूतः “सः च पर्जन्यः "वत्सं सह निवसन्तं वैद्युताग्निं “कृण्वन् प्रादुष्कुर्वन् तमेव “ओषधीनां व्रीह्यादीनां च “गर्भं कुर्वन् “सद्यः शीघ्रं “जातः प्रादुर्भूतः “वृषभः वर्षिता सन् “रोरवीति भृशं शब्दायते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०१" इत्यस्माद् प्रतिप्राप्तम्