"समास:१० पण्डितमूर्खलक्षणम्" इत्यस्य संस्करणे भेदः

पूर्वं यानि लक्षणानि कथितानि, तै: मूर्खाणाम् अप... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:१०, ७ डिसेम्बर् २०१४ इत्यस्य संस्करणं

पूर्वं यानि लक्षणानि कथितानि, तै: मूर्खाणाम् अपि चातुर्यं जायते।अथ ये पण्डिता:, अपि मूर्खा:, तेषां लक्षणानि शृणुत॥२.१०.१
तेषां संज्ञा ‘मूर्खपण्डिता:’ इति।श्रोतृभि: अत्र खेद: न मन्तव्य: यतो हि अवगुणत्यागेन सुखं लभ्यते॥२.१०.२
य: बहुश्रुत: व्युत्पन्न: च , य: विशदं ब्रह्मज्ञानं ब्रूते अथ दुराशाम् अभिमानं च चित्ते धारयति, स: मूर्खपण्डित:॥२.१०.३
य: मुक्तक्रियां प्रतिपादयति, सगुणभक्तिम् उच्छेदयति, स्वधर्मं साधनं च निन्दति, स: मूर्खपण्डित:॥२.१०.४
य: स्वज्ञानस्य आधारेण सर्वान् दूषयति, प्राणिमात्रस्य न्यूनं पश्यति, स: मूर्खपण्डित:॥२.१०.५
शिष्यस्य अवज्ञाप्रसङ्ग: स्यात्, अथवा स: सङ्कटे भवेत्, जनस्य मनोभङ्ग: भवेत् इति यस्य वचनं स: मूर्खपण्डित:॥२.१०.६
य: रजोबहुल:, तमोबहुल:, सकपट:, अन्त:करणे कुटिल:, य: वैभवं दृष्ट्वा प्रशंसां कुरुते, स: मूर्खपण्डित:॥२.१०.७
समूलं ग्रन्थम् अनवलोक्य एव य: ग्रन्थं दूषयते, गुणे कथिते सति दोषम् एव ईक्षते, स: मूर्खपण्डित: ॥२.१०.८
य: सल्लक्षणानि श्रुत्वा उद्विग्न: भवति, मत्सरेण कार्ये प्रवर्तते, औद्धत्यवशात् नीतिवचनं नाद्रियते, स: मूर्खपण्डित:॥२.१०.९
य: ज्ञातृत्वाभिमानेन कार्ये प्रवर्तते, य: क्रोधं धारयितुम् अक्षम: यस्य वाक्क्रिययो: अन्तरं विद्यते, स: मूर्खपण्डित:॥२.१०.१०
अधिकारं विना य: व्याख्यानं कृत्वा परिश्राम्यति, यस्य वचनं कठोरं, स: मूर्खपण्डित:॥२.१०.११
य: श्रोता बहुश्रुत: तथा वाचाल:, य: श्रोतु: न्यूनं दर्शयते, स: मूर्खपण्डित:॥२.१०.१२
‘अन्येषां यान् दोषान् अहम् उद्धरामि ते दोषा: मयि अपि सन्ति’इति य: न जानाति, स: मूर्खपण्डित:॥२.१०.१३
अभ्यासवशात् सकलविद्यापारङ्गत: अपि जनानां समाधानं कर्तुं न शक्नोति स: मूर्खपण्डित:॥२.१०.१४
यथा ऊर्णतन्तुना बद्ध: गज: यथा च लोभवशात् कमले मृत: भ्रमर: तथा य: प्रपञ्चे सक्त: स: मूर्खपण्डित:॥ २.१०.१५
य: स्त्रीभि: सङ्गत:, य: स्त्रीभ्य: निरूपणं करोति, य: निन्द्यं वस्तु अङ्गीकरोति, स: मूर्खपण्डित:॥२.१०.१६
येन स्वस्य अपकर्ष: स्यात् तदेव य: चित्ते दृढं धारयति, यश्च देहबुद्धि: स: मूर्खपण्डित:॥२.१०.१७
श्रीपतिं वर्जयित्वा य: नरस्तुतिं करोति, अथवा दृष्टं दृष्टं जनं प्रशंसति, स: मूर्खपण्डित:॥२.१०.१८
य: स्त्रीणाम् अवयवान् वर्णयति, नाना हावान् भावान् च नाटयति, य: देवं विस्मरति, स: मूर्खपण्डित:॥२.१०.१९
वैभवमदेन य: प्राणिमात्रं तुच्छं मन्यते, नास्तिकमतं य: प्रतिपादयति, स: मूर्खपण्डित:॥२.१०. २०
य: व्युत्पन्न:, वीतराग:, ब्रह्मज्ञ:, महायोगी, तथापि जनेषु भविष्यं कथयति,स: मूर्खपण्डित:॥२.१०.२१
कस्यचित् नाम्नि श्रुते तस्य गुणदोषान् मनसि चिन्तयति, परेषां भूषणविषये मत्सरं करोति,स: मूर्खपण्डित:॥२.१०.२२
यस्य न भक्तिरूपं साधनं विद्यते, न वैराग्यं विद्यते, न भजनं विद्यते, क्रियां विना य: ब्रह्मज्ञानं ब्रूते,स: मूर्खपण्डित:॥२.१०.२३
य: तीर्थं मन्यते, पुण्यक्षेत्रं न मन्यते, वेदं न मन्यते, शास्त्रं न मन्यते, य: च पवित्रकुले जात: सन् अपवित्र:, स: मूर्खपण्डित:॥२.१०.२४
स्वविषये आदरं दृष्ट्वा तत्र रमते, तस्य जनस्य कीर्ति: नास्ति चेदपि स्तुतिं करोति,तत्कालमेव तम् अनादरेण निन्दति,स: मूर्खपण्डित:॥२.१०.२५ वदति अन्यत् करोति अन्यत् इति यस्य व्यवहार: स: मूर्खपण्डित:॥२.१०.२६
यस्य प्रपञ्चविषये आदर:, परमार्थविषये अनादर:,य: ज्ञाता सन् अज्ञानम् आश्रयते,स: मूर्खपण्डित:॥२.१०.२७
यथार्थवचनं त्यक्त्वा य: मन: सन्धाय वदति, यस्य जीवितं पराधीनं स: मूर्खपण्डित:॥२.१०.२८
उपरि सज्जनताम् अभिनयति, परं निषिद्धम् आचरति, य: अमार्गेण गच्छन् अपि हठात् तमेव मार्गम् अनुसरति, स: मूर्खपण्डित:॥२.१०.२९
य: दिवानिशं श्रवणं कृत्वापि स्वदोषान् न त्यजति,स्वय स्वहितं न जानाति,स: मूर्खपण्डित:॥२.१०.३०
निरूपणं श्रोतुम् आगतान् सज्जनान् दुर्लक्ष्य य: य: क्षुद्रान् अभिलक्ष्य भाषते, स: मूर्खपण्डित:॥२.१०.३१
अधिकारात् च्युतम् अपि, अवज्ञाकरम् अपि शिष्यम् आशालुतया य: अभिलषति,स: मूर्खपण्डित:॥२.१०.३२
निरूपणकाले देहपीडा जाता चेद् य: क्रुद्ध्यति, स: मूर्खपण्डित:॥२.१०.३३
वैभवमत्ततया य: सद्गुरुम् उपेक्षते, स्वगुरुपरम्परां गोपायते,स: मूर्खपण्डित:॥२.१०.३४
मुखेन ज्ञानं वदति परं स्वार्थं साधयति, कृपणवत् अर्थं सञ्चिनोति, अर्थनिमित्तं परमार्थं ब्रूते,स: मूर्खपण्डित:॥२.१०.३५
स्वयं तथा वर्तनम् अकृत्वा एव अन्यान् शिक्षयते,ब्रह्मज्ञानम् ऐहिकलाभार्थं प्रतिपादयति, य: साधु: सन् पराधीन: स: मूर्खपण्डित:॥२.१०.३६
येन भक्तिमार्ग: भज्यते, येन स्वस्य दम्भ: प्रकट: भवति, तादृशं कर्म य: आचरति,स: मूर्खपण्डित:॥२.१०.३७
हस्तस्थ: प्रपञ्च: यस्य गत:, परमार्थस्य लेशोऽपि येन न प्राप्त:, य: देवान् ब्राह्मणान् द्वेष्टि, स: मूर्खपण्डित:॥२.१०.३८
अवगुणत्यागार्थं मूर्खपण्डितस्य लक्षणानि उक्तानि।तत्र न्यूनाधिकदोष: विचक्षणै: क्षन्तव्य:॥२.१०.३९
य: अस्मिन् संसारे सुखं मन्यते, स: परममूर्खेषु अपि मूर्ख: (यतो हि) अनेन संसारदु:खेन तुल्यं दु:खम् अन्यद् नास्ति॥२.१०.४०
तदेव निरूपणम् अग्रे वर्तते।जन्मदु:खस्य लक्षणरूप: गर्भवास: अग्रे वर्ण्यते॥२.१०.४१

इति मूर्खपण्डितलक्षणनिरूपणं नाम द्वितीयाध्याये दशम: समास:॥

दासबोध:   दशक ०२ – मूर्खलक्षणम्